Ṛgveda · Maṇḍala 10 · Sūkta 120
Ṛk 10.120.9
Saṃhitā
ए॒वा म॒हान्बृ॒हद्दि॑वो॒ अथ॒र्वावो॑च॒त्स्वां त॒न्व१॒॑मिंद्र॑मे॒व ।
स्वसा॑रो मात॒रिभ्व॑रीररि॒प्रा हि॒न्वंति॑ च॒ शव॑सा व॒र्धयं॑ति च ॥
एवा महान् बृहद्दिवो अथर्वावोचत् स्वां तन्वम् इन्द्रम् एव |
स्वसारो मातरिभ्वरीर् अरिप्रा हिन्वन्ति च शवसा वर्धयन्ति च ||
evā́ mahā́nbṛháddivo átharvā́vocatsvā́m tanvámíndramevá ǀ
svásāro mātaríbhvarīrariprā́ hinvánti ca śávasā vardháyanti ca ǁ
evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva |
svasāro mātaribhvarīr ariprā hinvanti ca śavasā vardhayanti ca ||
Padapāṭha
ए॒व । म॒हान् । बृ॒हत्ऽदि॑वः । अथ॑र्वा । अवो॑चत् । स्वाम् । त॒न्व॑म् । इन्द्र॑म् । ए॒व ।
स्वसा॑रः । मा॒त॒रिभ्व॑रीः । अ॒रि॒प्राः । हि॒न्वन्ति॑ । च॒ । शव॑सा । व॒र्धय॑न्ति । च॒ ॥
एव । महान् । बृहत्ऽदिवः । अथर्वा । अवोचत् । स्वाम् । तन्वम् । इन्द्रम् । एव ।
स्वसारः । मातरिभ्वरीः । अरिप्राः । हिन्वन्ति । च । शवसा । वर्धयन्ति । च ॥
evá ǀ mahā́n ǀ bṛhát-divaḥ ǀ átharvā ǀ ávocat ǀ svā́m ǀ tanvám ǀ índram ǀ evá ǀ
svásāraḥ ǀ mātaríbhvarīḥ ǀ ariprā́ḥ ǀ hinvánti ǀ ca ǀ śávasā ǀ vardháyanti ǀ ca ǁ
eva ǀ mahān ǀ bṛhat-divaḥ ǀ atharvā ǀ avocat ǀ svām ǀ tanvam ǀ indram ǀ eva ǀ
svasāraḥ ǀ mātaribhvarīḥ ǀ ariprāḥ ǀ hinvanti ǀ ca ǀ śavasā ǀ vardhayanti ǀ ca ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.120.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.02.04
- Maṇḍala · Anuvāka · Ṛk
- 10.10.078
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bṛhaddiva Ātharvaṇa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.