Ṛgveda · Maṇḍala 10 · Sūkta 121
Ṛk 10.121.1
Saṃhitā
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् |
स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ||
hiraṇyagarbháḥ sámavartatā́gre bhūtásya jātáḥ pátiréka āsīt ǀ
sá dādhāra pṛthivī́m dyā́mutémā́m kásmai devā́ya havíṣā vidhema ǁ
hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt |
sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema ||
Padapāṭha
हि॒र॒ण्य॒ऽग॒र्भः । सम् । अ॒व॒र्त॒त॒ । अग्रे॑ । भू॒तस्य॑ । जा॒तः । पतिः॑ । एकः॑ । आ॒सी॒त् ।
सः । दा॒धा॒र॒ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
हिरण्यऽगर्भः । सम् । अवर्तत । अग्रे । भूतस्य । जातः । पतिः । एकः । आसीत् ।
सः । दाधार । पृथिवीम् । द्याम् । उत । इमाम् । कस्मै । देवाय । हविषा । विधेम ॥
hiraṇya-garbháḥ ǀ sám ǀ avartata ǀ ágre ǀ bhūtásya ǀ jātáḥ ǀ pátiḥ ǀ ékaḥ ǀ āsīt ǀ
sáḥ ǀ dādhāra ǀ pṛthivī́m ǀ dyā́m ǀ utá ǀ imā́m ǀ kásmai ǀ devā́ya ǀ havíṣā ǀ vidhema ǁ
hiraṇya-garbhaḥ ǀ sam ǀ avartata ǀ agre ǀ bhūtasya ǀ jātaḥ ǀ patiḥ ǀ ekaḥ ǀ āsīt ǀ
saḥ ǀ dādhāra ǀ pṛthivīm ǀ dyām ǀ uta ǀ imām ǀ kasmai ǀ devāya ǀ haviṣā ǀ vidhema ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.121.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.03.01
- Maṇḍala · Anuvāka · Ṛk
- 10.10.079
- Devatā देवता
- Ka (Who?)
- Ṛṣi ऋषि
- Hiraṇyagarbha Prājāpatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.