Ṛgveda · Maṇḍala 10 · Sūkta 121
Ṛk 10.121.7
Saṃhitā
आपो॑ ह॒ यद्बृ॑ह॒तीर्विश्व॒माय॒न्गर्भं॒ दधा॑ना ज॒नयं॑तीर॒ग्निं ।
ततो॑ दे॒वानां॒ सम॑वर्त॒तासु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
आपो ह यद् बृहतीर् विश्वम् आयन् गर्भं दधाना जनयन्तीर् अग्निम् |
ततो देवानां सम् अवर्ततासुर् एकः कस्मै देवाय हविषा विधेम ||
ā́po ha yádbṛhatī́rvíśvamā́yangárbham dádhānā janáyantīragním ǀ
táto devā́nām sámavartatā́surékaḥ kásmai devā́ya havíṣā vidhema ǁ
āpo ha yad bṛhatīr viśvam āyan garbhaṃ dadhānā janayantīr agnim |
tato devānāṃ sam avartatāsur ekaḥ kasmai devāya haviṣā vidhema ||
Padapāṭha
आपः॑ । ह॒ । यत् । बृ॒ह॒तीः । विश्व॑म् । आय॑न् । गर्भ॑म् । दधा॑नाः । ज॒नय॑न्तीः । अ॒ग्निम् ।
ततः॑ । दे॒वाना॑म् । सम् । अ॒व॒र्त॒त॒ । असुः॑ । एकः॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
आपः । ह । यत् । बृहतीः । विश्वम् । आयन् । गर्भम् । दधानाः । जनयन्तीः । अग्निम् ।
ततः । देवानाम् । सम् । अवर्तत । असुः । एकः । कस्मै । देवाय । हविषा । विधेम ॥
ā́paḥ ǀ ha ǀ yát ǀ bṛhatī́ḥ ǀ víśvam ǀ ā́yan ǀ gárbham ǀ dádhānāḥ ǀ janáyantīḥ ǀ agním ǀ
tátaḥ ǀ devā́nām ǀ sám ǀ avartata ǀ ásuḥ ǀ ékaḥ ǀ kásmai ǀ devā́ya ǀ havíṣā ǀ vidhema ǁ
āpaḥ ǀ ha ǀ yat ǀ bṛhatīḥ ǀ viśvam ǀ āyan ǀ garbham ǀ dadhānāḥ ǀ janayantīḥ ǀ agnim ǀ
tataḥ ǀ devānām ǀ sam ǀ avartata ǀ asuḥ ǀ ekaḥ ǀ kasmai ǀ devāya ǀ haviṣā ǀ vidhema ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.121.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.04.02
- Maṇḍala · Anuvāka · Ṛk
- 10.10.085
- Devatā देवता
- Ka (Who?)
- Ṛṣi ऋषि
- Hiraṇyagarbha Prājāpatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.