Ṛgveda · Maṇḍala 10 · Sūkta 121
Ṛk 10.121.3
Saṃhitā
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यः प्राणतो निमिषतो महित्वैक इद् राजा जगतो बभूव |
य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ||
yáḥ prāṇató nimiṣató mahitváika ídrā́jā jágato babhū́va ǀ
yá ī́śe asyá dvipádaścátuṣpadaḥ kásmai devā́ya havíṣā vidhema ǁ
yaḥ prāṇato nimiṣato mahitvaika id rājā jagato babhūva |
ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema ||
Padapāṭha
यः । प्रा॒ण॒तः । नि॒ऽमि॒ष॒तः । म॒हि॒ऽत्वा । एकः॑ । इत् । राजा॑ । जग॑तः । ब॒भूव॑ ।
यः । ईशे॑ । अ॒स्य । द्वि॒ऽपदः॑ । चतुः॑ऽपदः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
यः । प्राणतः । निऽमिषतः । महिऽत्वा । एकः । इत् । राजा । जगतः । बभूव ।
यः । ईशे । अस्य । द्विऽपदः । चतुःऽपदः । कस्मै । देवाय । हविषा । विधेम ॥
yáḥ ǀ prāṇatáḥ ǀ ni-miṣatáḥ ǀ mahi-tvā́ ǀ ékaḥ ǀ ít ǀ rā́jā ǀ jágataḥ ǀ babhū́va ǀ
yáḥ ǀ ī́śe ǀ asyá ǀ dvi-pádaḥ ǀ cátuḥ-padaḥ ǀ kásmai ǀ devā́ya ǀ havíṣā ǀ vidhema ǁ
yaḥ ǀ prāṇataḥ ǀ ni-miṣataḥ ǀ mahi-tvā ǀ ekaḥ ǀ it ǀ rājā ǀ jagataḥ ǀ babhūva ǀ
yaḥ ǀ īśe ǀ asya ǀ dvi-padaḥ ǀ catuḥ-padaḥ ǀ kasmai ǀ devāya ǀ haviṣā ǀ vidhema ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.121.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.03.03
- Maṇḍala · Anuvāka · Ṛk
- 10.10.081
- Devatā देवता
- Ka (Who?)
- Ṛṣi ऋषि
- Hiraṇyagarbha Prājāpatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.