Ṛgveda · Maṇḍala 10 · Sūkta 121
Ṛk 10.121.9
Saṃhitā
मा नो॑ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं॑ स॒त्यध॑र्मा ज॒जान॑ ।
यश्चा॒पश्चं॒द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
मा नो हिंसीज् जनिता यः पृथिव्या यो वा दिवं सत्यधर्मा जजान |
यश् चापश् चन्द्रा बृहतीर् जजान कस्मै देवाय हविषा विधेम ||
mā́ no hiṃsījjanitā́ yáḥ pṛthivyā́ yó vā dívam satyádharmā jajā́na ǀ
yáścāpáścandrā́ bṛhatī́rjajā́na kásmai devā́ya havíṣā vidhema ǁ
mā no hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā jajāna |
yaś cāpaś candrā bṛhatīr jajāna kasmai devāya haviṣā vidhema ||
Padapāṭha
मा । नः॒ । हिं॒सी॒त् । ज॒नि॒ता । यः । पृ॒थि॒व्याः । यः । वा॒ । दिव॑म् । स॒त्यऽध॑र्मा । ज॒जान॑ ।
यः । च॒ । अ॒पः । च॒न्द्राः । बृ॒ह॒तीः । ज॒जान॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
मा । नः । हिंसीत् । जनिता । यः । पृथिव्याः । यः । वा । दिवम् । सत्यऽधर्मा । जजान ।
यः । च । अपः । चन्द्राः । बृहतीः । जजान । कस्मै । देवाय । हविषा । विधेम ॥
mā́ ǀ naḥ ǀ hiṃsīt ǀ janitā́ ǀ yáḥ ǀ pṛthivyā́ḥ ǀ yáḥ ǀ vā ǀ dívam ǀ satyá-dharmā ǀ jajā́na ǀ
yáḥ ǀ ca ǀ apáḥ ǀ candrā́ḥ ǀ bṛhatī́ḥ ǀ jajā́na ǀ kásmai ǀ devā́ya ǀ havíṣā ǀ vidhema ǁ
mā ǀ naḥ ǀ hiṃsīt ǀ janitā ǀ yaḥ ǀ pṛthivyāḥ ǀ yaḥ ǀ vā ǀ divam ǀ satya-dharmā ǀ jajāna ǀ
yaḥ ǀ ca ǀ apaḥ ǀ candrāḥ ǀ bṛhatīḥ ǀ jajāna ǀ kasmai ǀ devāya ǀ haviṣā ǀ vidhema ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.121.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.04.04
- Maṇḍala · Anuvāka · Ṛk
- 10.10.087
- Devatā देवता
- Ka (Who?)
- Ṛṣi ऋषि
- Hiraṇyagarbha Prājāpatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.