Ṛgveda · Maṇḍala 10 · Sūkta 121
Ṛk 10.121.8
Saṃhitā
यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नयं॑तीर्य॒ज्ञं ।
यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यश् चिद् आपो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर् यज्ञम् |
यो देवेष्व् अधि देव एक आसीत् कस्मै देवाय हविषा विधेम ||
yáścidā́po mahinā́ paryápaśyaddákṣam dádhānā janáyantīryajñám ǀ
yó devéṣvádhi devá éka ā́sītkásmai devā́ya havíṣā vidhema ǁ
yaś cid āpo mahinā paryapaśyad dakṣaṃ dadhānā janayantīr yajñam |
yo deveṣv adhi deva eka āsīt kasmai devāya haviṣā vidhema ||
Padapāṭha
यः । चि॒त् । आपः॑ । म॒हि॒ना । प॒रि॒ऽअप॑श्यत् । दक्ष॑म् । दधा॑नाः । ज॒नय॑न्तीः । य॒ज्ञम् ।
यः । दे॒वेषु॑ । अधि॑ । दे॒वः । एकः॑ । आसी॑त् । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
यः । चित् । आपः । महिना । परिऽअपश्यत् । दक्षम् । दधानाः । जनयन्तीः । यज्ञम् ।
यः । देवेषु । अधि । देवः । एकः । आसीत् । कस्मै । देवाय । हविषा । विधेम ॥
yáḥ ǀ cit ǀ ā́paḥ ǀ mahinā́ ǀ pari-ápaśyat ǀ dákṣam ǀ dádhānāḥ ǀ janáyantīḥ ǀ yajñám ǀ
yáḥ ǀ devéṣu ǀ ádhi ǀ deváḥ ǀ ékaḥ ǀ ā́sīt ǀ kásmai ǀ devā́ya ǀ havíṣā ǀ vidhema ǁ
yaḥ ǀ cit ǀ āpaḥ ǀ mahinā ǀ pari-apaśyat ǀ dakṣam ǀ dadhānāḥ ǀ janayantīḥ ǀ yajñam ǀ
yaḥ ǀ deveṣu ǀ adhi ǀ devaḥ ǀ ekaḥ ǀ āsīt ǀ kasmai ǀ devāya ǀ haviṣā ǀ vidhema ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.121.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.04.03
- Maṇḍala · Anuvāka · Ṛk
- 10.10.086
- Devatā देवता
- Ka (Who?)
- Ṛṣi ऋषि
- Hiraṇyagarbha Prājāpatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.