Ṛgveda · Maṇḍala 10 · Sūkta 56
Ṛk 10.56.4
Saṃhitā
म॒हि॒म्न ए॑षां पि॒तर॑श्च॒नेशि॑रे दे॒वा दे॒वेष्व॑दधु॒रपि॒ क्रतुं॑ ।
सम॑विव्यचुरु॒त यान्यत्वि॑षु॒रैषां॑ त॒नूषु॒ नि वि॑विशुः॒ पुनः॑ ॥
महिम्न एषाम् पितरश् चनेशिरे देवा देवेष्व् अदधुर् अपि क्रतुम् |
सम् अविव्यचुर् उत यान्य् अत्विषुर् ऐषां तनूषु नि विविशुः पुनः ||
mahimná eṣām pitáraścanéśire devā́ devéṣvadadhurápi krátum ǀ
sámavivyacurutá yā́nyátviṣuráiṣām tanū́ṣu ní viviśuḥ púnaḥ ǁ
mahimna eṣām pitaraś caneśire devā deveṣv adadhur api kratum |
sam avivyacur uta yāny atviṣur aiṣāṃ tanūṣu ni viviśuḥ punaḥ ||
Padapāṭha
म॒हि॒म्नः । ए॒षा॒म् । पि॒तरः॑ । च॒न । ई॒शि॒रे॒ । दे॒वाः । दे॒वेषु॑ । अ॒द॒धुः॒ । अपि॑ । क्रतु॑म् ।
सम् । अ॒वि॒व्य॒चुः॒ । उ॒त । यानि॑ । अत्वि॑षुः । आ । ए॒षा॒म् । त॒नूषु॑ । नि । वि॒वि॒शुः॒ । पुन॒रिति॑ ॥
महिम्नः । एषाम् । पितरः । चन । ईशिरे । देवाः । देवेषु । अदधुः । अपि । क्रतुम् ।
सम् । अविव्यचुः । उत । यानि । अत्विषुः । आ । एषाम् । तनूषु । नि । विविशुः । पुनरिति ॥
mahimnáḥ ǀ eṣām ǀ pitáraḥ ǀ caná ǀ īśire ǀ devā́ḥ ǀ devéṣu ǀ adadhuḥ ǀ ápi ǀ krátum ǀ
sám ǀ avivyacuḥ ǀ utá ǀ yā́ni ǀ átviṣuḥ ǀ ā́ ǀ eṣām ǀ tanū́ṣu ǀ ní ǀ viviśuḥ ǀ púnaríti ǁ
mahimnaḥ ǀ eṣām ǀ pitaraḥ ǀ cana ǀ īśire ǀ devāḥ ǀ deveṣu ǀ adadhuḥ ǀ api ǀ kratum ǀ
sam ǀ avivyacuḥ ǀ uta ǀ yāni ǀ atviṣuḥ ǀ ā ǀ eṣām ǀ tanūṣu ǀ ni ǀ viviśuḥ ǀ punariti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.056.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.18.04
- Maṇḍala · Anuvāka · Ṛk
- 10.04.125
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Bṛhaduktha Vāmadevya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.