Ṛgveda · Maṇḍala 10 · Sūkta 149
Ṛk 10.149.2
Saṃhitā
यत्रा॑ समु॒द्रः स्क॑भि॒तो व्यौन॒दपां॑ नपात्सवि॒ता तस्य॑ वेद ।
अतो॒ भूरत॑ आ॒ उत्थि॑तं॒ रजोऽतो॒ द्यावा॑पृथि॒वी अ॑प्रथेतां ॥
यत्रा समुद्र स्कभितो व्य् औनद् अपां नपात् सविता तस्य वेद |
अतो भूर् अत आ उत्थितं रजो ऽतो द्यावापृथिवी अप्रथेताम् ||
yátrā samudráḥ skabhitó vyáunadápām napātsavitā́ tásya veda ǀ
áto bhū́ráta ā útthitam rájó’to dyā́vāpṛthivī́ aprathetām ǁ
yatrā samudra skabhito vy aunad apāṃ napāt savitā tasya veda |
ato bhūr ata ā utthitaṃ rajo 'to dyāvāpṛthivī aprathetām ||
Padapāṭha
यत्र॑ । स॒मु॒द्रः । स्क॒भि॒तः । वि । औन॑त् । अपा॑म् । न॒पा॒त् । स॒वि॒ता । तस्य॑ । वे॒द॒ ।
अतः॑ । भूः । अतः॑ । आः॒ । उत्थि॑तम् । रजः॑ । अतः॑ । द्यावा॑पृथि॒वी इति॑ । अ॒प्र॒थे॒ता॒म् ॥
यत्र । समुद्रः । स्कभितः । वि । औनत् । अपाम् । नपात् । सविता । तस्य । वेद ।
अतः । भूः । अतः । आः । उत्थितम् । रजः । अतः । द्यावापृथिवी इति । अप्रथेताम् ॥
yátra ǀ samudráḥ ǀ skabhitáḥ ǀ ví ǀ áunat ǀ ápām ǀ napāt ǀ savitā́ ǀ tásya ǀ veda ǀ
átaḥ ǀ bhū́ḥ ǀ átaḥ ǀ āḥ ǀ útthitam ǀ rájaḥ ǀ átaḥ ǀ dyā́vāpṛthivī́ íti ǀ aprathetām ǁ
yatra ǀ samudraḥ ǀ skabhitaḥ ǀ vi ǀ aunat ǀ apām ǀ napāt ǀ savitā ǀ tasya ǀ veda ǀ
ataḥ ǀ bhūḥ ǀ ataḥ ǀ āḥ ǀ utthitam ǀ rajaḥ ǀ ataḥ ǀ dyāvāpṛthivī iti ǀ aprathetām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.149.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.8.07.02
- Maṇḍala · Anuvāka · Ṛk
- 10.11.131
- Devatā देवता
- Savitṛ
- Ṛṣi ऋषि
- Arcat Hairaṇyastūpa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.