Ṛgveda · Maṇḍala 10 · Sūkta 170
Ṛk 10.170.3
Saṃhitā
इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं वि॑श्व॒जिद्ध॑न॒जिदु॑च्यते बृ॒हत् ।
वि॒श्व॒भ्राड्भ्रा॒जो महि॒ सूर्यो॑ दृ॒श उ॒रु प॑प्रथे॒ सह॒ ओजो॒ अच्यु॑तं ॥
इदं श्रेष्ठं ज्योतिषां ज्योतिर् उत्तमं विश्वजिद् धनजिद् उच्यते बृहत् |
विश्वभ्राड् भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ||
idám śréṣṭham jyótiṣām jyótiruttamám viśvajíddhanajíducyate bṛhát ǀ
viśvabhrā́ḍbhrājó máhi sū́ryo dṛśá urú paprathe sáha ójo ácyutam ǁ
idaṃ śreṣṭhaṃ jyotiṣāṃ jyotir uttamaṃ viśvajid dhanajid ucyate bṛhat |
viśvabhrāḍ bhrājo mahi sūryo dṛśa uru paprathe saha ojo acyutam ||
Padapāṭha
इ॒दम् । श्रेष्ठ॑म् । ज्योति॑षाम् । ज्योतिः॑ । उ॒त्ऽत॒मम् । वि॒श्व॒ऽजित् । ध॒न॒ऽजित् । उ॒च्य॒ते॒ । बृ॒हत् ।
वि॒श्व॒ऽभ्राट् । भ्रा॒जः । महि॑ । सूर्यः॑ । दृ॒शे । उ॒रु । प॒प्र॒थे॒ । सहः॑ । ओजः॑ । अच्यु॑तम् ॥
इदम् । श्रेष्ठम् । ज्योतिषाम् । ज्योतिः । उत्ऽतमम् । विश्वऽजित् । धनऽजित् । उच्यते । बृहत् ।
विश्वऽभ्राट् । भ्राजः । महि । सूर्यः । दृशे । उरु । पप्रथे । सहः । ओजः । अच्युतम् ॥
idám ǀ śréṣṭham ǀ jyótiṣām ǀ jyótiḥ ǀ ut-tamám ǀ viśva-jít ǀ dhana-jít ǀ ucyate ǀ bṛhát ǀ
viśva-bhrā́ṭ ǀ bhrājáḥ ǀ máhi ǀ sū́ryaḥ ǀ dṛśé ǀ urú ǀ paprathe ǀ sáhaḥ ǀ ójaḥ ǀ ácyutam ǁ
idam ǀ śreṣṭham ǀ jyotiṣām ǀ jyotiḥ ǀ ut-tamam ǀ viśva-jit ǀ dhana-jit ǀ ucyate ǀ bṛhat ǀ
viśva-bhrāṭ ǀ bhrājaḥ ǀ mahi ǀ sūryaḥ ǀ dṛśe ǀ uru ǀ paprathe ǀ sahaḥ ǀ ojaḥ ǀ acyutam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.170.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.8.28.03
- Maṇḍala · Anuvāka · Ṛk
- 10.12.093
- Devatā देवता
- Sūrya
- Ṛṣi ऋषि
- Vibhrāj Saurya
- Chandas छन्दस्
- Jagatī, Āstārapaṅkti
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.