Ṛgveda · Maṇḍala 10 · Sūkta 27
Ṛk 10.27.4
Saṃhitā
यदज्ञा॑तेषु वृ॒जने॒ष्वासं॒ विश्वे॑ स॒तो म॒घवा॑नो म आसन् ।
जि॒नामि॒ वेत्क्षेम॒ आ संत॑मा॒भुं प्र तं क्षि॑णां॒ पर्व॑ते पाद॒गृह्य॑ ॥
यद् अज्ञातेषु वृजनेष्व् आसं विश्वे सतो मघवानो म आसन् |
जिनामि वेत् क्षेम आ सन्तम् आभुम् प्र तं क्षिणाम् पर्वते पादगृह्य ||
yádájñāteṣu vṛjáneṣvā́sam víśve sató maghávāno ma āsan ǀ
jinā́mi vétkṣéma ā́ sántamābhúm prá tám kṣiṇām párvate pādagṛ́hya ǁ
yad ajñāteṣu vṛjaneṣv āsaṃ viśve sato maghavāno ma āsan |
jināmi vet kṣema ā santam ābhum pra taṃ kṣiṇām parvate pādagṛhya ||
Padapāṭha
यत् । अज्ञा॑तेषु । वृ॒जने॑षु । आस॑म् । विश्वे॑ । स॒तः । म॒घऽवा॑नः । मे॒ । आ॒स॒न् ।
जि॒नामि॑ । वा॒ । इत् । क्षेमे॑ । आ । सन्त॑म् । आ॒भुम् । प्र । तम् । क्षि॒णा॒म् । पर्व॑ते । पा॒द॒ऽगृह्य॑ ॥
यत् । अज्ञातेषु । वृजनेषु । आसम् । विश्वे । सतः । मघऽवानः । मे । आसन् ।
जिनामि । वा । इत् । क्षेमे । आ । सन्तम् । आभुम् । प्र । तम् । क्षिणाम् । पर्वते । पादऽगृह्य ॥
yát ǀ ájñāteṣu ǀ vṛjáneṣu ǀ ā́sam ǀ víśve ǀ satáḥ ǀ maghá-vānaḥ ǀ me ǀ āsan ǀ
jinā́mi ǀ vā ǀ ít ǀ kṣéme ǀ ā́ ǀ sántam ǀ ābhúm ǀ prá ǀ tám ǀ kṣiṇām ǀ párvate ǀ pāda-gṛ́hya ǁ
yat ǀ ajñāteṣu ǀ vṛjaneṣu ǀ āsam ǀ viśve ǀ sataḥ ǀ magha-vānaḥ ǀ me ǀ āsan ǀ
jināmi ǀ vā ǀ it ǀ kṣeme ǀ ā ǀ santam ǀ ābhum ǀ pra ǀ tam ǀ kṣiṇām ǀ parvate ǀ pāda-gṛhya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.027.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.7.15.04
- Maṇḍala · Anuvāka · Ṛk
- 10.02.106
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasukra Aindra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.