Ṛgveda · Maṇḍala 10 · Sūkta 93

Ṛk 10.93.15

Viśvedevās · Tānva Pārtha

The whole sūkta Link

Saṃhitā

अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ ।
स॒द्यो दि॑दिष्ट॒ तान्वः॑ स॒द्यो दि॑दिष्ट पा॒र्थ्यः स॒द्यो दि॑दिष्ट माय॒वः ॥

अधीन् न्व् अत्र सप्ततिं च सप्त च |
सद्यो दिदिष्ट तान्वः सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः ||

ádhī́nnvátra saptatím ca saptá ca ǀ
sadyó didiṣṭa tā́nvaḥ sadyó didiṣṭa pārthyáḥ sadyó didiṣṭa māyaváḥ ǁ

adhīn nv atra saptatiṃ ca sapta ca |
sadyo didiṣṭa tānvaḥ sadyo didiṣṭa pārthyaḥ sadyo didiṣṭa māyavaḥ ||

Padapāṭha

अधि॑ । इत् । नु । अत्र॑ । स॒प्त॒तिम् । च॒ । स॒प्त । च॒ ।
स॒द्यः । दि॒दि॒ष्ट॒ । तान्वः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । पा॒र्थ्यः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । मा॒य॒वः ॥

अधि । इत् । नु । अत्र । सप्ततिम् । च । सप्त । च ।
सद्यः । दिदिष्ट । तान्वः । सद्यः । दिदिष्ट । पार्थ्यः । सद्यः । दिदिष्ट । मायवः ॥

ádhi ǀ ít ǀ nú ǀ átra ǀ saptatím ǀ ca ǀ saptá ǀ ca ǀ
sadyáḥ ǀ didiṣṭa ǀ tā́nvaḥ ǀ sadyáḥ ǀ didiṣṭa ǀ pārthyáḥ ǀ sadyáḥ ǀ didiṣṭa ǀ māyaváḥ ǁ

adhi ǀ it ǀ nu ǀ atra ǀ saptatim ǀ ca ǀ sapta ǀ ca ǀ
sadyaḥ ǀ didiṣṭa ǀ tānvaḥ ǀ sadyaḥ ǀ didiṣṭa ǀ pārthyaḥ ǀ sadyaḥ ǀ didiṣṭa ǀ māyavaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.093.15
Aṣṭaka · Adhyāya · Varga · Ṛk
8.4.28.05
Maṇḍala · Anuvāka · Ṛk
10.08.045
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Tānva Pārtha
Chandas छन्दस्
Prastārapaṅkti, Anuṣṭubh, Paṅkti According To Syllable Count, Nyaṅkusāriṇī, Purastādbṛhatī
Svara स्वरः
मध्यमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.93.15

Interpretations

Sāyaṇa

अत्रैषु राजसु तान्वो नामर्षिर्गवां सप्त च सप्ततिं च नु क्षिप्रं सद्य इत् सद्य एवाधि दिदिष्ट। अधिपूर्वो दिशिर्याचनार्थः। ययाचे। किञ्च पार्थो नाम युवनाश्वनामकस्य कुले पृथोः पुत्रः किशि त्सद्य एव गवां सप्तसप्ततिमधि दिदिष्ट। किञ्च मायवोऽपि सद्य एवाधि दिदिष्ट॥१५॥