Ṛgveda · Maṇḍala 10 · Sūkta 73
Ṛk 10.73.5
Saṃhitā
मंद॑मान ऋ॒तादधि॑ प्र॒जायै॒ सखि॑भि॒रिंद्र॑ इषि॒रेभि॒रर्थं॑ ।
आभि॒र्हि मा॒या उप॒ दस्यु॒मागा॒न्मिहः॒ प्र त॒म्रा अ॑वप॒त्तमां॑सि ॥
मन्दमान ऋताद् अधि प्रजायै सखिभिर् इन्द्र इषिरेभिर् अर्थम् |
आभिर् हि माया उप दस्युम् आगान् मिहः प्र तम्रा अवपत् तमांसि ||
mándamāna ṛtā́dádhi prajā́yai sákhibhiríndra iṣirébhirártham ǀ
ā́bhirhí māyā́ úpa dásyumā́gānmíhaḥ prá tamrā́ avapattámāṃsi ǁ
mandamāna ṛtād adhi prajāyai sakhibhir indra iṣirebhir artham |
ābhir hi māyā upa dasyum āgān mihaḥ pra tamrā avapat tamāṃsi ||
Padapāṭha
मन्द॑मानः । ऋ॒तात् । अधि॑ । प्र॒ऽजायै॑ । सखि॑ऽभिः । इन्द्रः॑ । इ॒षि॒रेभिः॑ । अर्थ॑म् ।
आ । आ॒भिः॒ । हि । मा॒याः । उप॑ । दस्यु॑म् । आ । अगा॑त् । मिहः॑ । प्र । त॒म्राः । अ॒व॒प॒त् । तमां॑सि ॥
मन्दमानः । ऋतात् । अधि । प्रऽजायै । सखिऽभिः । इन्द्रः । इषिरेभिः । अर्थम् ।
आ । आभिः । हि । मायाः । उप । दस्युम् । आ । अगात् । मिहः । प्र । तम्राः । अवपत् । तमांसि ॥
mándamānaḥ ǀ ṛtā́t ǀ ádhi ǀ pra-jā́yai ǀ sákhi-bhiḥ ǀ índraḥ ǀ iṣirébhiḥ ǀ ártham ǀ
ā́ ǀ ābhiḥ ǀ hí ǀ māyā́ḥ ǀ úpa ǀ dásyum ǀ ā́ ǀ ágāt ǀ míhaḥ ǀ prá ǀ tamrā́ḥ ǀ avapat ǀ támāṃsi ǁ
mandamānaḥ ǀ ṛtāt ǀ adhi ǀ pra-jāyai ǀ sakhi-bhiḥ ǀ indraḥ ǀ iṣirebhiḥ ǀ artham ǀ
ā ǀ ābhiḥ ǀ hi ǀ māyāḥ ǀ upa ǀ dasyum ǀ ā ǀ agāt ǀ mihaḥ ǀ pra ǀ tamrāḥ ǀ avapat ǀ tamāṃsi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.073.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.03.05
- Maṇḍala · Anuvāka · Ṛk
- 10.06.048
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gaurivīti Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.