Ṛgveda · Maṇḍala 10 · Sūkta 110
Ṛk 10.110.2
Saṃhitā
तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ समं॒जन्त्स्व॑दया सुजिह्व ।
मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृं॒धंदे॑व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ॥
तनूनपात् पथ ऋतस्य यानान् मध्वा समञ्जन् स्वदया सुजिह्व |
मन्मानि धीभिर् उत यज्ञम् ऋन्धन् देवत्रा च कृणुह्य् अध्वरं नः ||
tánūnapātpathá ṛtásya yā́nānmádhvā samañjántsvadayā sujihva ǀ
mánmāni dhībhírutá yajñámṛndhándevatrā́ ca kṛṇuhyadhvarám naḥ ǁ
tanūnapāt patha ṛtasya yānān madhvā samañjan svadayā sujihva |
manmāni dhībhir uta yajñam ṛndhan devatrā ca kṛṇuhy adhvaraṃ naḥ ||
Padapāṭha
तनू॑ऽनपात् । प॒थः । ऋ॒तस्य॑ । याना॑न् । मध्वा॑ । स॒म्ऽअ॒ञ्जन् । स्व॒द॒य॒ । सु॒ऽजि॒ह्व॒ ।
मन्मा॑नि । धी॒भिः । उ॒त । य॒ज्ञम् । ऋ॒न्धन् । दे॒व॒ऽत्रा । च॒ । कृ॒णु॒हि॒ । अ॒ध्व॒रम् । नः॒ ॥
तनूऽनपात् । पथः । ऋतस्य । यानान् । मध्वा । सम्ऽअञ्जन् । स्वदय । सुऽजिह्व ।
मन्मानि । धीभिः । उत । यज्ञम् । ऋन्धन् । देवऽत्रा । च । कृणुहि । अध्वरम् । नः ॥
tánū-napāt ǀ patháḥ ǀ ṛtásya ǀ yā́nān ǀ mádhvā ǀ sam-añján ǀ svadaya ǀ su-jihva ǀ
mánmāni ǀ dhībhíḥ ǀ utá ǀ yajñám ǀ ṛndhán ǀ deva-trā́ ǀ ca ǀ kṛṇuhi ǀ adhvarám ǀ naḥ ǁ
tanū-napāt ǀ pathaḥ ǀ ṛtasya ǀ yānān ǀ madhvā ǀ sam-añjan ǀ svadaya ǀ su-jihva ǀ
manmāni ǀ dhībhiḥ ǀ uta ǀ yajñam ǀ ṛndhan ǀ deva-trā ǀ ca ǀ kṛṇuhi ǀ adhvaram ǀ naḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.110.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.08.02
- Maṇḍala · Anuvāka · Ṛk
- 10.09.113
- Devatā देवता
- 1, 3, 10, 11: Agni; 2, 4, 5, 7, 9: Hymn Āprī; 6: Uṣás, Nakta; 8: Iḷā, Bhāratī, Sarasvatī
- Ṛṣi ऋषि
- Jamadagni Bhārgava Or Rāma Jāmadagnya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.