Ṛgveda · Maṇḍala 10 · Sūkta 99
Ṛk 10.99.5
Saṃhitā
स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा॑ हि॒त्वी गय॑मा॒रेअ॑वद्य॒ आगा॑त् ।
व॒म्रस्य॑ मन्ये मिथु॒ना विव॑व्री॒ अन्न॑म॒भीत्या॑रोदयन्मुषा॒यन् ॥
स रुद्रेभिर् अशस्तवार ऋभ्वा हित्वी गयम् आरेअवद्य आगात् |
वम्रस्य मन्ये मिथुना विवव्री अन्नम् अभीत्यारोदयन् मुषायन् ||
sá rudrébhiráśastavāra ṛ́bhvā hitvī́ gáyamāréavadya ā́gāt ǀ
vamrásya manye mithunā́ vívavrī ánnamabhī́tyārodayanmuṣāyán ǁ
sa rudrebhir aśastavāra ṛbhvā hitvī gayam āreavadya āgāt |
vamrasya manye mithunā vivavrī annam abhītyārodayan muṣāyan ||
Padapāṭha
सः । रु॒द्रेभिः॑ । अश॑स्तऽवारः । ऋभ्वा॑ । हि॒त्वी । गय॑म् । आ॒रेऽअ॑वद्यः । आ । अ॒गा॒त् ।
व॒म्रस्य॑ । म॒न्ये॒ । मि॒थु॒ना । विव॑व्री॒ इति॒ विऽव॑व्री । अन्न॑म् । अ॒भि॒ऽइत्य॑ । अ॒रो॒द॒य॒त् । मु॒षा॒यन् ॥
सः । रुद्रेभिः । अशस्तऽवारः । ऋभ्वा । हित्वी । गयम् । आरेऽअवद्यः । आ । अगात् ।
वम्रस्य । मन्ये । मिथुना । विवव्री इति विऽवव्री । अन्नम् । अभिऽइत्य । अरोदयत् । मुषायन् ॥
sáḥ ǀ rudrébhiḥ ǀ áśasta-vāraḥ ǀ ṛ́bhvā ǀ hitvī́ ǀ gáyam ǀ āré-avadyaḥ ǀ ā́ ǀ agāt ǀ
vamrásya ǀ manye ǀ mithunā́ ǀ vívavrī íti ví-vavrī ǀ ánnam ǀ abhi-ítya ǀ arodayat ǀ muṣāyán ǁ
saḥ ǀ rudrebhiḥ ǀ aśasta-vāraḥ ǀ ṛbhvā ǀ hitvī ǀ gayam ǀ āre-avadyaḥ ǀ ā ǀ agāt ǀ
vamrasya ǀ manye ǀ mithunā ǀ vivavrī iti vi-vavrī ǀ annam ǀ abhi-itya ǀ arodayat ǀ muṣāyan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.099.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.14.05
- Maṇḍala · Anuvāka · Ṛk
- 10.08.130
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vamra Vaikhānasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.