Ṛgveda · Maṇḍala 10 · Sūkta 98

Ṛk 10.98.12

Devās · Devāpi Ārṣṭiṣeṇa

The whole sūkta Link

Saṃhitā

अग्ने॒ बाध॑स्व॒ वि मृधो॒ वि दु॒र्गहापामी॑वा॒मप॒ रक्षां॑सि सेध ।
अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नो॒ऽपां भू॒मान॒मुप॑ नः सृजे॒ह ॥

अग्ने बाधस्व वि मृधो वि दुर्गहापामीवाम् अप रक्षांसि सेध |
अस्मात् समुद्राद् बृहतो दिवो नो ऽपाम् भूमानम् उप नः सृजेह ||

ágne bā́dhasva ví mṛ́dho ví durgáhā́pā́mīvāmápa rákṣāṃsi sedha ǀ
asmā́tsamudrā́dbṛható divó no’pā́m bhūmā́namúpa naḥ sṛjehá ǁ

agne bādhasva vi mṛdho vi durgahāpāmīvām apa rakṣāṃsi sedha |
asmāt samudrād bṛhato divo no 'pām bhūmānam upa naḥ sṛjeha ||

Padapāṭha

अग्ने॑ । बाध॑स्व । वि । मृधः॑ । वि । दुः॒ऽगहा॑ । अप॑ । अमी॑वाम् । अप॑ । रक्षां॑सि । से॒ध॒ ।
अ॒स्मात् । स॒मु॒द्रात् । बृ॒ह॒तः । दि॒वः । नः॒ । अ॒पाम् । भू॒मान॑म् । उप॑ । नः॒ । सृ॒ज॒ । इ॒ह ॥

अग्ने । बाधस्व । वि । मृधः । वि । दुःऽगहा । अप । अमीवाम् । अप । रक्षांसि । सेध ।
अस्मात् । समुद्रात् । बृहतः । दिवः । नः । अपाम् । भूमानम् । उप । नः । सृज । इह ॥

ágne ǀ bā́dhasva ǀ ví ǀ mṛ́dhaḥ ǀ ví ǀ duḥ-gáhā ǀ ápa ǀ ámīvām ǀ ápa ǀ rákṣāṃsi ǀ sedha ǀ
asmā́t ǀ samudrā́t ǀ bṛhatáḥ ǀ diváḥ ǀ naḥ ǀ apā́m ǀ bhūmā́nam ǀ úpa ǀ naḥ ǀ sṛja ǀ ihá ǁ

agne ǀ bādhasva ǀ vi ǀ mṛdhaḥ ǀ vi ǀ duḥ-gahā ǀ apa ǀ amīvām ǀ apa ǀ rakṣāṃsi ǀ sedha ǀ
asmāt ǀ samudrāt ǀ bṛhataḥ ǀ divaḥ ǀ naḥ ǀ apām ǀ bhūmānam ǀ upa ǀ naḥ ǀ sṛja ǀ iha ǁ

References

Maṇḍala · Sūkta · Ṛk
10.098.12
Aṣṭaka · Adhyāya · Varga · Ṛk
8.5.13.06
Maṇḍala · Anuvāka · Ṛk
10.08.125
Devatā देवता
Devās
Ṛṣi ऋषि
Devāpi Ārṣṭiṣeṇa
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.98.12

Interpretations

Sāyaṇa

हे अग्ने दुर्गहा दुर्गहाणि दुःखेन गाहितव्यानि शत्रुपुराणि वि बाधस्व। तथामीवां रोगमप सेध। तथा रक्षांस्यप सेध। आपवारय। अस्मात्समुद्रात् समुद्द्रवणसाधनाद्ब्रुहतो महतो दिवो द्युलोकादन्तरिक्षाद्वापामुदकानां भूमानं बहुभावं व्रुष्टिसंस्त्यायमिहास्मिल्लोक उप सृज। प्रयच्छेत्यर्थः॥१२॥