Ṛgveda · Maṇḍala 10 · Sūkta 98
Ṛk 10.98.2
Saṃhitā
आ दे॒वो दू॒तो अ॑जि॒रश्चि॑कि॒त्वांत्वद्दे॑वापे अ॒भि माम॑गच्छत् ।
प्र॒ती॒ची॒नः प्रति॒ मामा व॑वृत्स्व॒ दधा॑मि ते द्यु॒मतीं॒ वाच॑मा॒सन् ॥
आ देवो दूतो अजिरश् चिकित्वान् त्वद् देवापे अभि माम् अगच्छत् |
प्रतीचीनः प्रति माम् आ ववृत्स्व दधामि ते द्युमतीं वाचम् आसन् ||
ā́ devó dūtó ajiráścikitvā́ntváddevāpe abhí mā́magacchat ǀ
pratīcīnáḥ práti mā́mā́ vavṛtsva dádhāmi te dyumátīm vā́camāsán ǁ
ā devo dūto ajiraś cikitvān tvad devāpe abhi mām agacchat |
pratīcīnaḥ prati mām ā vavṛtsva dadhāmi te dyumatīṃ vācam āsan ||
Padapāṭha
आ । दे॒वः । दू॒तः । अ॒जि॒रः । चि॒कि॒त्वान् । त्वत् । दे॒व॒ऽआ॒पे॒ । अ॒भि । माम् । अ॒ग॒च्छ॒त् ।
प्र॒ती॒ची॒नः । प्रति॑ । माम् । आ । व॒वृ॒त्स्व॒ । दधा॑मि । ते॒ । द्यु॒ऽमती॑म् । वाच॑म् । आ॒सन् ॥
आ । देवः । दूतः । अजिरः । चिकित्वान् । त्वत् । देवऽआपे । अभि । माम् । अगच्छत् ।
प्रतीचीनः । प्रति । माम् । आ । ववृत्स्व । दधामि । ते । द्युऽमतीम् । वाचम् । आसन् ॥
ā́ ǀ deváḥ ǀ dūtáḥ ǀ ajiráḥ ǀ cikitvā́n ǀ tvát ǀ deva-āpe ǀ abhí ǀ mā́m ǀ agacchat ǀ
pratīcīnáḥ ǀ práti ǀ mā́m ǀ ā́ ǀ vavṛtsva ǀ dádhāmi ǀ te ǀ dyu-mátīm ǀ vā́cam ǀ āsán ǁ
ā ǀ devaḥ ǀ dūtaḥ ǀ ajiraḥ ǀ cikitvān ǀ tvat ǀ deva-āpe ǀ abhi ǀ mām ǀ agacchat ǀ
pratīcīnaḥ ǀ prati ǀ mām ǀ ā ǀ vavṛtsva ǀ dadhāmi ǀ te ǀ dyu-matīm ǀ vācam ǀ āsan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.098.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.12.02
- Maṇḍala · Anuvāka · Ṛk
- 10.08.115
- Devatā देवता
- Devās
- Ṛṣi ऋषि
- Devāpi Ārṣṭiṣeṇa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.