Ṛgveda · Maṇḍala 10 · Sūkta 98
Ṛk 10.98.7
Saṃhitā
यद्दे॒वापिः॒ शंत॑नवे पु॒रोहि॑तो हो॒त्राय॑ वृ॒तः कृ॒पय॒न्नदी॑धेत् ।
दे॒व॒श्रुतं॑ वृष्टि॒वनिं॒ ररा॑णो॒ बृह॒स्पति॒र्वाच॑मस्मा अयच्छत् ॥
यद् देवापिः शन्तनवे पुरोहितो होत्राय वृतः कृपयन्न् अदीधेत् |
देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर् वाचम् अस्मा अयच्छत् ||
yáddevā́piḥ śáṃtanave puróhito hotrā́ya vṛtáḥ kṛpáyannádīdhet ǀ
devaśrútam vṛṣṭivánim rárāṇo bṛ́haspátirvā́camasmā ayacchat ǁ
yad devāpiḥ śantanave purohito hotrāya vṛtaḥ kṛpayann adīdhet |
devaśrutaṃ vṛṣṭivaniṃ rarāṇo bṛhaspatir vācam asmā ayacchat ||
Padapāṭha
यत् । दे॒वऽआ॑पिः । शम्ऽत॑नवे । पु॒रःऽहि॑तः । हो॒त्राय॑ । वृ॒तः । कृ॒पय॑न् । अदी॑धेत् ।
दे॒व॒ऽश्रुत॑म् । वृ॒ष्टि॒ऽवनि॑म् । ररा॑णः । बृह॒स्पतिः॑ । वाच॑म् । अ॒स्मै॒ । अ॒य॒च्छ॒त् ॥
यत् । देवऽआपिः । शम्ऽतनवे । पुरःऽहितः । होत्राय । वृतः । कृपयन् । अदीधेत् ।
देवऽश्रुतम् । वृष्टिऽवनिम् । रराणः । बृहस्पतिः । वाचम् । अस्मै । अयच्छत् ॥
yát ǀ devá-āpiḥ ǀ śám-tanave ǀ puráḥ-hitaḥ ǀ hotrā́ya ǀ vṛtáḥ ǀ kṛpáyan ǀ ádīdhet ǀ
deva-śrútam ǀ vṛṣṭi-vánim ǀ rárāṇaḥ ǀ bṛ́haspátiḥ ǀ vā́cam ǀ asmai ǀ ayacchat ǁ
yat ǀ deva-āpiḥ ǀ śam-tanave ǀ puraḥ-hitaḥ ǀ hotrāya ǀ vṛtaḥ ǀ kṛpayan ǀ adīdhet ǀ
deva-śrutam ǀ vṛṣṭi-vanim ǀ rarāṇaḥ ǀ bṛhaspatiḥ ǀ vācam ǀ asmai ǀ ayacchat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.098.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.13.01
- Maṇḍala · Anuvāka · Ṛk
- 10.08.120
- Devatā देवता
- Devās
- Ṛṣi ऋषि
- Devāpi Ārṣṭiṣeṇa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.