Ṛgveda · Maṇḍala 10 · Sūkta 98
Ṛk 10.98.5
Saṃhitā
आ॒र्ष्टि॒षे॒णो हो॒त्रमृषि॑र्नि॒षीदं॑दे॒वापि॑र्देवसुम॒तिं चि॑कि॒त्वान् ।
स उत्त॑रस्मा॒दध॑रं समु॒द्रम॒पो दि॒व्या अ॑सृजद्व॒र्ष्या॑ अ॒भि ॥
आर्ष्टिषेणो होत्रम् ऋषिर् निषीदन् देवापिर् देवसुमतिं चिकित्वान् |
स उत्तरस्माद् अधरं समुद्रम् अपो दिव्या असृजद् वर्ष्या अभि ||
ārṣṭiṣeṇó hotrámṛ́ṣirniṣī́dandevā́pirdevasumatím cikitvā́n ǀ
sá úttarasmādádharam samudrámapó divyā́ asṛjadvarṣyā́ abhí ǁ
ārṣṭiṣeṇo hotram ṛṣir niṣīdan devāpir devasumatiṃ cikitvān |
sa uttarasmād adharaṃ samudram apo divyā asṛjad varṣyā abhi ||
Padapāṭha
आ॒र्ष्टि॒षे॒णः । हो॒त्रम् । ऋषिः॑ । नि॒ऽसीद॑न् । दे॒वऽआ॑पिः । दे॒व॒ऽसु॒म॒तिम् । चि॒कि॒त्वान् ।
सः । उत्ऽत॑रस्मात् । अध॑रम् । स॒मु॒द्रम् । अ॒पः । दि॒व्याः । अ॒सृ॒ज॒त् । व॒र्ष्याः॑ । अ॒भि ॥
आर्ष्टिषेणः । होत्रम् । ऋषिः । निऽसीदन् । देवऽआपिः । देवऽसुमतिम् । चिकित्वान् ।
सः । उत्ऽतरस्मात् । अधरम् । समुद्रम् । अपः । दिव्याः । असृजत् । वर्ष्याः । अभि ॥
ārṣṭiṣeṇáḥ ǀ hotrám ǀ ṛ́ṣiḥ ǀ ni-sī́dan ǀ devá-āpiḥ ǀ deva-sumatím ǀ cikitvā́n ǀ
sáḥ ǀ út-tarasmāt ǀ ádharam ǀ samudrám ǀ apáḥ ǀ divyā́ḥ ǀ asṛjat ǀ varṣyā́ḥ ǀ abhí ǁ
ārṣṭiṣeṇaḥ ǀ hotram ǀ ṛṣiḥ ǀ ni-sīdan ǀ deva-āpiḥ ǀ deva-sumatim ǀ cikitvān ǀ
saḥ ǀ ut-tarasmāt ǀ adharam ǀ samudram ǀ apaḥ ǀ divyāḥ ǀ asṛjat ǀ varṣyāḥ ǀ abhi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.098.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.12.05
- Maṇḍala · Anuvāka · Ṛk
- 10.08.118
- Devatā देवता
- Devās
- Ṛṣi ऋषि
- Devāpi Ārṣṭiṣeṇa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.