Ṛgveda · Maṇḍala 10 · Sūkta 34
Ṛk 10.34.9
Saṃhitā
नी॒चा व॑र्तंत उ॒परि॑ स्फुरंत्यह॒स्तासो॒ हस्त॑वंतं सहंते ।
दि॒व्या अंगा॑रा॒ इरि॑णे॒ न्यु॑प्ताः शी॒ताः संतो॒ हृद॑यं॒ निर्द॑हंति ॥
नीचा वर्तन्त उपरि स्फुरन्त्य् अहस्तासो हस्तवन्तं सहन्ते |
दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर् दहन्ति ||
nīcā́ vartanta upári sphurantyahastā́so hástavantam sahante ǀ
divyā́ áṅgārā íriṇe nyúptāḥ śītā́ḥ sánto hṛ́dayam nírdahanti ǁ
nīcā vartanta upari sphuranty ahastāso hastavantaṃ sahante |
divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṃ nir dahanti ||
Padapāṭha
नी॒चा । व॒र्त॒न्ते॒ । उ॒परि॑ । स्फु॒र॒न्ति॒ । अ॒ह॒स्तासः॑ । हस्त॑ऽवन्तम् । स॒ह॒न्ते॒ ।
दि॒व्याः । अङ्गा॑राः । इरि॑णे । निऽउ॑प्ताः । शी॒ताः । सन्तः॑ । हृद॑यम् । निः । द॒ह॒न्ति॒ ॥
नीचा । वर्तन्ते । उपरि । स्फुरन्ति । अहस्तासः । हस्तऽवन्तम् । सहन्ते ।
दिव्याः । अङ्गाराः । इरिणे । निऽउप्ताः । शीताः । सन्तः । हृदयम् । निः । दहन्ति ॥
nīcā́ ǀ vartante ǀ upári ǀ sphuranti ǀ ahastā́saḥ ǀ hásta-vantam ǀ sahante ǀ
divyā́ḥ ǀ áṅgārāḥ ǀ íriṇe ǀ ní-uptāḥ ǀ śītā́ḥ ǀ sántaḥ ǀ hṛ́dayam ǀ níḥ ǀ dahanti ǁ
nīcā ǀ vartante ǀ upari ǀ sphuranti ǀ ahastāsaḥ ǀ hasta-vantam ǀ sahante ǀ
divyāḥ ǀ aṅgārāḥ ǀ iriṇe ǀ ni-uptāḥ ǀ śītāḥ ǀ santaḥ ǀ hṛdayam ǀ niḥ ǀ dahanti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.034.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.04.04
- Maṇḍala · Anuvāka · Ṛk
- 10.03.053
- Devatā देवता
- 1, 7, 9, 12, 13: Akṣakṛṣipraśaṃsā; 2-6, 8, 10, 11, 14: Akṣakitavanindā
- Ṛṣi ऋषि
- Kavaṣa Ailūṣa Or Akṣa Maujavat
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.