Ṛgveda · Maṇḍala 10 · Sūkta 48

Ṛk 10.48.11

Indra · Indra Vaikuṇṭha

The whole sūkta Link

Saṃhitā

आ॒दि॒त्यानां॒ वसू॑नां रु॒द्रिया॑णां दे॒वो दे॒वानां॒ न मि॑नामि॒ धाम॑ ।
ते मा॑ भ॒द्राय॒ शव॑से ततक्षु॒रप॑राजित॒मस्तृ॑त॒मषा॑ळ्हं ॥

आदित्यानां वसूनां रुद्रियाणां देवो देवानां न मिनामि धाम |
ते मा भद्राय शवसे ततक्षुर् अपराजितम् अस्तृतम् अषाऌहम् ||

ādityā́nām vásūnām rudríyāṇām devó devā́nām ná mināmi dhā́ma ǀ
té mā bhadrā́ya śávase tatakṣuráparājitamástṛtamáṣāḷham ǁ

ādityānāṃ vasūnāṃ rudriyāṇāṃ devo devānāṃ na mināmi dhāma |
te mā bhadrāya śavase tatakṣur aparājitam astṛtam aṣāḷham ||

Padapāṭha

आ॒दि॒त्याना॑म् । वसू॑नाम् । रु॒द्रिया॑णाम् । दे॒वः । दे॒वाना॑म् । न । मि॒ना॒मि॒ । धाम॑ ।
ते । मा॒ । भ॒द्राय॑ । शव॑से । त॒त॒क्षुः॒ । अप॑राऽजितम् । अस्तृ॑तम् । अषा॑ळ्हम् ॥

आदित्यानाम् । वसूनाम् । रुद्रियाणाम् । देवः । देवानाम् । न । मिनामि । धाम ।
ते । मा । भद्राय । शवसे । ततक्षुः । अपराऽजितम् । अस्तृतम् । अषाळ्हम् ॥

ādityā́nām ǀ vásūnām ǀ rudríyāṇām ǀ deváḥ ǀ devā́nām ǀ ná ǀ mināmi ǀ dhā́ma ǀ
té ǀ mā ǀ bhadrā́ya ǀ śávase ǀ tatakṣuḥ ǀ áparā-jitam ǀ ástṛtam ǀ áṣāḷham ǁ

ādityānām ǀ vasūnām ǀ rudriyāṇām ǀ devaḥ ǀ devānām ǀ na ǀ mināmi ǀ dhāma ǀ
te ǀ mā ǀ bhadrāya ǀ śavase ǀ tatakṣuḥ ǀ aparā-jitam ǀ astṛtam ǀ aṣāḷham ǁ

References

Maṇḍala · Sūkta · Ṛk
10.048.11
Aṣṭaka · Adhyāya · Varga · Ṛk
8.1.06.06
Maṇḍala · Anuvāka · Ṛk
10.04.063
Devatā देवता
Indra
Ṛṣi ऋषि
Indra Vaikuṇṭha
Chandas छन्दस्
Jagatī, Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.48.11

Interpretations

Sāyaṇa

आदित्यानां वसूनां रुद्रियाणां रुद्राणां यद्वा रुद्रपुत्राणां मरुतां च देवानां धाम स्थानं देव इन्द्रो न मिनाति। न हिनस्ति। त आदित्यादयो मा मां भद्राय शवसे ततक्षुः। अनुगृह्णन्तु। अपराजितमस्तृतमहिंसिठमषाळ्ह मनभिभूतम्॥११॥