Ṛgveda · Maṇḍala 10 · Sūkta 48
Ṛk 10.48.9
Saṃhitā
प्र मे॒ नमी॑ सा॒प्य इ॒षे भु॒जे भू॒द्गवा॒मेषे॑ स॒ख्या कृ॑णुत द्वि॒ता ।
दि॒द्युं यद॑स्य समि॒थेषु॑ मं॒हय॒मादिदे॑नं॒ शंस्य॑मु॒क्थ्यं॑ करं ॥
प्र मे नमी साप्य इषे भुजे भूद् गवाम् एषे सख्या कृणुत द्विता |
दिद्युं यद् अस्य समिथेषु मंहयम् आद् इद् एनं शंस्यम् उक्थ्यं करम् ||
prá me námī sāpyá iṣé bhujé bhūdgávāméṣe sakhyā́ kṛṇuta dvitā́ ǀ
didyúm yádasya samithéṣu maṃháyamā́dídenam śáṃsyamukthyám karam ǁ
pra me namī sāpya iṣe bhuje bhūd gavām eṣe sakhyā kṛṇuta dvitā |
didyuṃ yad asya samitheṣu maṃhayam ād id enaṃ śaṃsyam ukthyaṃ karam ||
Padapāṭha
प्र । मे॒ । नमी॑ । सा॒प्यः । इ॒षे । भु॒जे । भू॒त् । गवा॑म् । एषे॑ । स॒ख्या । कृ॒णु॒त॒ । द्वि॒ता ।
दि॒द्युम् । यत् । अ॒स्य॒ । स॒म्ऽइ॒थेषु॑ । मं॒हय॑म् । आत् । इत् । ए॒न॒म् । शंस्य॑म् । उ॒क्थ्य॑म् । क॒र॒म् ॥
प्र । मे । नमी । साप्यः । इषे । भुजे । भूत् । गवाम् । एषे । सख्या । कृणुत । द्विता ।
दिद्युम् । यत् । अस्य । सम्ऽइथेषु । मंहयम् । आत् । इत् । एनम् । शंस्यम् । उक्थ्यम् । करम् ॥
prá ǀ me ǀ námī ǀ sāpyáḥ ǀ iṣé ǀ bhujé ǀ bhūt ǀ gávām ǀ éṣe ǀ sakhyā́ ǀ kṛṇuta ǀ dvitā́ ǀ
didyúm ǀ yát ǀ asya ǀ sam-ithéṣu ǀ maṃháyam ǀ ā́t ǀ ít ǀ enam ǀ śáṃsyam ǀ ukthyám ǀ karam ǁ
pra ǀ me ǀ namī ǀ sāpyaḥ ǀ iṣe ǀ bhuje ǀ bhūt ǀ gavām ǀ eṣe ǀ sakhyā ǀ kṛṇuta ǀ dvitā ǀ
didyum ǀ yat ǀ asya ǀ sam-itheṣu ǀ maṃhayam ǀ āt ǀ it ǀ enam ǀ śaṃsyam ǀ ukthyam ǀ karam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.048.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.06.04
- Maṇḍala · Anuvāka · Ṛk
- 10.04.061
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Indra Vaikuṇṭha
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.