Ṛgveda · Maṇḍala 10 · Sūkta 8
Ṛk 10.8.8
Saṃhitā
स पित्र्या॒ण्यायु॑धानि वि॒द्वानिंद्रे॑षित आ॒प्त्यो अ॒भ्य॑युध्यत् ।
त्रि॒शी॒र्षाणं॑ स॒प्तर॑श्मिं जघ॒न्वांत्वा॒ष्ट्रस्य॑ चि॒न्निः स॑सृजे त्रि॒तो गाः ॥
स पित्र्याण्य् आयुधानि विद्वान् इन्द्रेषित आप्त्यो अभ्य् अयुध्यत् |
त्रिशीर्षाणं सप्तरश्मिं जघन्वान् त्वाष्ट्रस्य चिन् निः ससृजे त्रितो गाः ||
sá pítryāṇyā́yudhāni vidvā́níndreṣita āptyó abhyáyudhyat ǀ
triśīrṣā́ṇam saptáraśmim jaghanvā́ntvāṣṭrásya cinníḥ sasṛje tritó gā́ḥ ǁ
sa pitryāṇy āyudhāni vidvān indreṣita āptyo abhy ayudhyat |
triśīrṣāṇaṃ saptaraśmiṃ jaghanvān tvāṣṭrasya cin niḥ sasṛje trito gāḥ ||
Padapāṭha
सः । पित्र्या॑णि । आयु॑धानि । वि॒द्वान् । इन्द्र॑ऽइषितः । आ॒प्त्यः । अ॒भि । अ॒यु॒ध्य॒त् ।
त्रि॒ऽशी॒र्षाण॑म् । स॒प्तऽर॑श्मिम् । ज॒घ॒न्वान् । त्वा॒ष्ट्रस्य॑ । चि॒त् । निः । स॒सृ॒जे॒ । त्रि॒तः । गाः ॥
सः । पित्र्याणि । आयुधानि । विद्वान् । इन्द्रऽइषितः । आप्त्यः । अभि । अयुध्यत् ।
त्रिऽशीर्षाणम् । सप्तऽरश्मिम् । जघन्वान् । त्वाष्ट्रस्य । चित् । निः । ससृजे । त्रितः । गाः ॥
sáḥ ǀ pítryāṇi ǀ ā́yudhāni ǀ vidvā́n ǀ índra-iṣitaḥ ǀ āptyáḥ ǀ abhí ǀ ayudhyat ǀ
tri-śīrṣā́ṇam ǀ saptá-raśmim ǀ jaghanvā́n ǀ tvāṣṭrásya ǀ cit ǀ níḥ ǀ sasṛje ǀ tritáḥ ǀ gā́ḥ ǁ
saḥ ǀ pitryāṇi ǀ āyudhāni ǀ vidvān ǀ indra-iṣitaḥ ǀ āptyaḥ ǀ abhi ǀ ayudhyat ǀ
tri-śīrṣāṇam ǀ sapta-raśmim ǀ jaghanvān ǀ tvāṣṭrasya ǀ cit ǀ niḥ ǀ sasṛje ǀ tritaḥ ǀ gāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.008.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.6.04.03
- Maṇḍala · Anuvāka · Ṛk
- 10.01.057
- Devatā देवता
- 1-6: Agni; 7-9: Indra
- Ṛṣi ऋषि
- Triśiras Tvāṣṭra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.