Ṛgveda · Maṇḍala 10 · Sūkta 44
Ṛk 10.44.6
Saṃhitā
पृथ॒क्प्राय॑न्प्रथ॒मा दे॒वहू॑त॒योऽकृ॑ण्वत श्रव॒स्या॑नि दु॒ष्टरा॑ ।
न ये शे॒कुर्य॒ज्ञियां॒ नाव॑मा॒रुह॑मी॒र्मैव ते न्य॑विशंत॒ केप॑यः ॥
पृथक् प्रायन् प्रथमा देवहूतयो ऽकृण्वत श्रवस्यानि दुष्टरा |
न ये शेकुर् यज्ञियां नावम् आरुहम् ईर्मैव ते न्य् अविशन्त केपयः ||
pṛ́thakprā́yanprathamā́ deváhūtayó’kṛṇvata śravasyā́ni duṣṭárā ǀ
ná yé śekúryajñíyām nā́vamārúhamīrmáivá té nyáviśanta képayaḥ ǁ
pṛthak prāyan prathamā devahūtayo 'kṛṇvata śravasyāni duṣṭarā |
na ye śekur yajñiyāṃ nāvam āruham īrmaiva te ny aviśanta kepayaḥ ||
Padapāṭha
पृथ॑क् । प्र । आ॒य॒न् । प्र॒थ॒माः । दे॒वऽहू॑तयः । अकृ॑ण्वत । श्र॒व॒स्या॑नि । दु॒स्तरा॑ ।
न । ये । शे॒कुः । य॒ज्ञिया॑म् । नाव॑म् । आ॒ऽरुह॑म् । ई॒र्मा । ए॒व । ते । नि । अ॒वि॒श॒न्त॒ । केप॑यः ॥
पृथक् । प्र । आयन् । प्रथमाः । देवऽहूतयः । अकृण्वत । श्रवस्यानि । दुस्तरा ।
न । ये । शेकुः । यज्ञियाम् । नावम् । आऽरुहम् । ईर्मा । एव । ते । नि । अविशन्त । केपयः ॥
pṛ́thak ǀ prá ǀ āyan ǀ prathamā́ḥ ǀ devá-hūtayaḥ ǀ ákṛṇvata ǀ śravasyā́ni ǀ dustárā ǀ
ná ǀ yé ǀ śekúḥ ǀ yajñíyām ǀ nā́vam ǀ ā-rúham ǀ īrmā́ ǀ evá ǀ té ǀ ní ǀ aviśanta ǀ képayaḥ ǁ
pṛthak ǀ pra ǀ āyan ǀ prathamāḥ ǀ deva-hūtayaḥ ǀ akṛṇvata ǀ śravasyāni ǀ dustarā ǀ
na ǀ ye ǀ śekuḥ ǀ yajñiyām ǀ nāvam ǀ ā-ruham ǀ īrmā ǀ eva ǀ te ǀ ni ǀ aviśanta ǀ kepayaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.044.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.8.27.01
- Maṇḍala · Anuvāka · Ṛk
- 10.04.017
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kṛṣṇa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.