Ṛgveda · Maṇḍala 10 · Sūkta 130

Ṛk 10.130.7

Bhāvavṛttam · Yajña Prājāpatya

The whole sūkta Link

Saṃhitā

स॒हस्तो॑माः स॒हच्छं॑दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑यः स॒प्त दैव्याः॑ ।
पूर्वे॑षां॒ पंथा॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो॒३॒॑ न र॒श्मीन् ॥

सहस्तोमाः सहछन्दस आवृतः सहप्रमा ऋषयः सप्त दैव्याः |
पूर्वेषाम् पन्थाम् अनुदृश्य धीरा अन्वालेभिरे रथ्यो न रश्मीन् ||

sahástomāḥ sahácchandasa āvṛ́taḥ sahápramā ṛ́ṣayaḥ saptá dáivyāḥ ǀ
pū́rveṣām pánthāmanudṛ́śya dhī́rā anvā́lebhire rathyó ná raśmī́n ǁ

sahastomāḥ sahachandasa āvṛtaḥ sahapramā ṛṣayaḥ sapta daivyāḥ |
pūrveṣām panthām anudṛśya dhīrā anvālebhire rathyo na raśmīn ||

Padapāṭha

स॒हऽस्तो॑माः । स॒हऽछ॑न्दसः । आ॒ऽवृतः॑ । स॒हऽप्र॑माः । ऋष॑यः । स॒प्त । दैव्याः॑ ।
पूर्वे॑षाम् । पन्था॑म् । अ॒नु॒ऽदृश्य॑ । धीराः॑ । अ॒नु॒ऽआले॑भिरे । र॒थ्यः॑ । न । र॒श्मीन् ॥

सहऽस्तोमाः । सहऽछन्दसः । आऽवृतः । सहऽप्रमाः । ऋषयः । सप्त । दैव्याः ।
पूर्वेषाम् । पन्थाम् । अनुऽदृश्य । धीराः । अनुऽआलेभिरे । रथ्यः । न । रश्मीन् ॥

sahá-stomāḥ ǀ sahá-chandasaḥ ǀ ā-vṛ́taḥ ǀ sahá-pramāḥ ǀ ṛ́ṣayaḥ ǀ saptá ǀ dáivyāḥ ǀ
pū́rveṣām ǀ pánthām ǀ anu-dṛ́śya ǀ dhī́rāḥ ǀ anu-ā́lebhire ǀ rathyáḥ ǀ ná ǀ raśmī́n ǁ

saha-stomāḥ ǀ saha-chandasaḥ ǀ ā-vṛtaḥ ǀ saha-pramāḥ ǀ ṛṣayaḥ ǀ sapta ǀ daivyāḥ ǀ
pūrveṣām ǀ panthām ǀ anu-dṛśya ǀ dhīrāḥ ǀ anu-ālebhire ǀ rathyaḥ ǀ na ǀ raśmīn ǁ

References

Maṇḍala · Sūkta · Ṛk
10.130.07
Aṣṭaka · Adhyāya · Varga · Ṛk
8.7.18.07
Maṇḍala · Anuvāka · Ṛk
10.11.014
Devatā देवता
Bhāvavṛttam
Ṛṣi ऋषि
Yajña Prājāpatya
Chandas छन्दस्
Triṣṭubh, Jagatī
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.130.7

Interpretations

Sāyaṇa

स्तोमैः त्रिवृत्पञ्चदशादिभिः सह वर्तमानाः सहस्तोमाः सहच्छन्दसो गायत्र्यादिभिश्छन्दोभिः सह वर्तमाना आवृत आवर्तमानाः सहप्रमाः। प्रमितिः प्रमा यज्ञस्येयत्तापरिज्ञानम्। तेन सह वर्तमाना दैव्या देवस्य प्रजापतेः सम्बन्धिनः यद्वा देवानां यष्टव्यानां सम्बन्धिन ऋषयो द्रष्टारः सप्तसङ्ख्याकाः शीर्षण्याः। यद्वा। मरीचिप्रमुखाः सप्तर्षयो होत्रादयः सप्त वष्ट्कर्तारो वा। एवंविधा एते पूर्वेषां पूर्वपुरुषाणामङ्गिरः प्रभृतीनां विश्वसृजां देवानां वा पन्थां पंणानमनुष्थानमार्गमनुदृश्य क्रमेण ज्ञात्वा धीरा धीमन्तः सन्तोऽन्वालेभिरे। अनुक्रमेणारब्धवन्तः। यागानुष्थाने प्रवृत्ता इत्यर्थः। रथ्यो न यथा रथिनो रथेन युक्ता रथस्य नेतारः सूता रश्मीनश्वनियोजनार्थान्प्रग्रहान् सम्यग्रथस्य नयनाय हस्तेनान्वारभन्ते अन्वारभ्य च सम्यक् तं रथं प्रवर्तयन्ति एवमेतेऽप्यनुष्ठानमार्गं श्रुतितोऽवगम्य सम्यगन्वतिष्ठन्नित्यर्थः॥७॥