Ṛgveda · Maṇḍala 10 · Sūkta 12
Ṛk 10.12.3
Saṃhitā
स्वावृ॑ग्दे॒वस्या॒मृतं॒ यदी॒ गोरतो॑ जा॒तासो॑ धारयंत उ॒र्वी ।
विश्वे॑ दे॒वा अनु॒ तत्ते॒ यजु॑र्गुर्दु॒हे यदेनी॑ दि॒व्यं घृ॒तं वाः ॥
स्वावृग् देवस्यामृतं यदी गोर् अतो जातासो धारयन्त उर्वी |
विश्वे देवा अनु तत् ते यजुर् गुर् दुहे यद् एनी दिव्यं घृतं वाः ||
svā́vṛgdevásyāmṛ́tam yádī góráto jātā́so dhārayanta urvī́ ǀ
víśve devā́ ánu tátte yájurgurduhé yádénī divyám ghṛtám vā́ḥ ǁ
svāvṛg devasyāmṛtaṃ yadī gor ato jātāso dhārayanta urvī |
viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtaṃ vāḥ ||
Padapāṭha
स्वावृ॑क् । दे॒वस्य॑ । अ॒मृत॑म् । यदि॑ । गोः । अतः॑ । जा॒तासः॑ । धा॒र॒य॒न्ते॒ । उ॒र्वी इति॑ ।
विश्वे॑ । दे॒वाः । अनु॑ । तत् । ते॒ । यजुः॑ । गुः॒ । दु॒हे । यत् । एनी॑ । दि॒व्यम् । घृ॒तम् । वारिति॒ वाः ॥
स्वावृक् । देवस्य । अमृतम् । यदि । गोः । अतः । जातासः । धारयन्ते । उर्वी इति ।
विश्वे । देवाः । अनु । तत् । ते । यजुः । गुः । दुहे । यत् । एनी । दिव्यम् । घृतम् । वारिति वाः ॥
svā́vṛk ǀ devásya ǀ amṛ́tam ǀ yádi ǀ góḥ ǀ átaḥ ǀ jātā́saḥ ǀ dhārayante ǀ urvī́ íti ǀ
víśve ǀ devā́ḥ ǀ ánu ǀ tát ǀ te ǀ yájuḥ ǀ guḥ ǀ duhé ǀ yát ǀ énī ǀ divyám ǀ ghṛtám ǀ vā́ríti vā́ḥ ǁ
svāvṛk ǀ devasya ǀ amṛtam ǀ yadi ǀ goḥ ǀ ataḥ ǀ jātāsaḥ ǀ dhārayante ǀ urvī iti ǀ
viśve ǀ devāḥ ǀ anu ǀ tat ǀ te ǀ yajuḥ ǀ guḥ ǀ duhe ǀ yat ǀ enī ǀ divyam ǀ ghṛtam ǀ vāriti vāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.012.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.6.11.03
- Maṇḍala · Anuvāka · Ṛk
- 10.01.093
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Havirdhāna Āṅgi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.