Ṛgveda · Maṇḍala 10 · Sūkta 12
Ṛk 10.12.4
Saṃhitā
अर्चा॑मि वां॒ वर्धा॒यापो॑ घृतस्नू॒ द्यावा॑भूमी शृणु॒तं रो॑दसी मे ।
अहा॒ यद्द्यावोऽसु॑नीति॒मय॒न्मध्वा॑ नो॒ अत्र॑ पि॒तरा॑ शिशीतां ॥
अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे |
अहा यद् द्यावो ऽसुनीतिम् अयन् मध्वा नो अत्र पितरा शिशीताम् ||
árcāmi vām várdhāyā́po ghṛtasnū dyā́vābhūmī śṛṇutám rodasī me ǀ
áhā yáddyā́vó’sunītimáyanmádhvā no átra pitárā śiśītām ǁ
arcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṃ rodasī me |
ahā yad dyāvo 'sunītim ayan madhvā no atra pitarā śiśītām ||
Padapāṭha
अर्चा॑मि । वा॒म् । वर्धा॑य । अपः॑ । घृ॒त॒स्नू॒ इति॑ घृतऽस्नू । द्यावा॑भूमी॒ इति॑ । शृ॒णु॒तम् । रो॒द॒सी॒ इति॑ । मे॒ ।
अहा॑ । यत् । द्यावः॑ । असु॑ऽनीतिम् । अय॑न् । मध्वा॑ । नः॒ । अत्र॑ । पि॒तरा॑ । शि॒शी॒ता॒म् ॥
अर्चामि । वाम् । वर्धाय । अपः । घृतस्नू इति घृतऽस्नू । द्यावाभूमी इति । शृणुतम् । रोदसी इति । मे ।
अहा । यत् । द्यावः । असुऽनीतिम् । अयन् । मध्वा । नः । अत्र । पितरा । शिशीताम् ॥
árcāmi ǀ vām ǀ várdhāya ǀ ápaḥ ǀ ghṛtasnū íti ghṛta-snū ǀ dyā́vābhūmī íti ǀ śṛṇutám ǀ rodasī íti ǀ me ǀ
áhā ǀ yát ǀ dyā́vaḥ ǀ ásu-nītim ǀ áyan ǀ mádhvā ǀ naḥ ǀ átra ǀ pitárā ǀ śiśītām ǁ
arcāmi ǀ vām ǀ vardhāya ǀ apaḥ ǀ ghṛtasnū iti ghṛta-snū ǀ dyāvābhūmī iti ǀ śṛṇutam ǀ rodasī iti ǀ me ǀ
ahā ǀ yat ǀ dyāvaḥ ǀ asu-nītim ǀ ayan ǀ madhvā ǀ naḥ ǀ atra ǀ pitarā ǀ śiśītām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.012.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.6.11.04
- Maṇḍala · Anuvāka · Ṛk
- 10.01.094
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Havirdhāna Āṅgi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.