Ṛgveda · Maṇḍala 10 · Sūkta 12
Ṛk 10.12.5
Saṃhitā
किं स्वि॑न्नो॒ राजा॑ जगृहे॒ कद॒स्याति॑ व्र॒तं च॑कृमा॒ को वि वे॑द ।
मि॒त्रश्चि॒द्धि ष्मा॑ जुहुरा॒णो दे॒वांछ्लोको॒ न या॒तामपि॒ वाजो॒ अस्ति॑ ॥
किं स्विन् नो राजा जगृहे कद् अस्याति व्रतं चकृमा को वि वेद |
मित्रश् चिद् धि ष्मा जुहुराणो देवाञ् छ्लोको न याताम् अपि वाजो अस्ति ||
kím svinno rā́jā jagṛhe kádasyā́ti vratám cakṛmā kó ví veda ǀ
mitráściddhí ṣmā juhurāṇó devā́ñchlóko ná yātā́mápi vā́jo ásti ǁ
kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda |
mitraś cid dhi ṣmā juhurāṇo devāñ chloko na yātām api vājo asti ||
Padapāṭha
किम् । स्वि॒त् । नः॒ । राजा॑ । ज॒गृ॒हे॒ । कत् । अ॒स्य॒ । अति॑ । व्र॒तम् । च॒कृ॒म॒ । कः । वि । वे॒द॒ ।
मि॒त्रः । चि॒त् । हि । स्म॒ । जु॒हु॒रा॒णः । दे॒वान् । श्लोकः॑ । न । या॒ताम् । अपि॑ । वाजः॑ । अस्ति॑ ॥
किम् । स्वित् । नः । राजा । जगृहे । कत् । अस्य । अति । व्रतम् । चकृम । कः । वि । वेद ।
मित्रः । चित् । हि । स्म । जुहुराणः । देवान् । श्लोकः । न । याताम् । अपि । वाजः । अस्ति ॥
kím ǀ svit ǀ naḥ ǀ rā́jā ǀ jagṛhe ǀ kát ǀ asya ǀ áti ǀ vratám ǀ cakṛma ǀ káḥ ǀ ví ǀ veda ǀ
mitráḥ ǀ cit ǀ hí ǀ sma ǀ juhurāṇáḥ ǀ devā́n ǀ ślókaḥ ǀ ná ǀ yātā́m ǀ ápi ǀ vā́jaḥ ǀ ásti ǁ
kim ǀ svit ǀ naḥ ǀ rājā ǀ jagṛhe ǀ kat ǀ asya ǀ ati ǀ vratam ǀ cakṛma ǀ kaḥ ǀ vi ǀ veda ǀ
mitraḥ ǀ cit ǀ hi ǀ sma ǀ juhurāṇaḥ ǀ devān ǀ ślokaḥ ǀ na ǀ yātām ǀ api ǀ vājaḥ ǀ asti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.012.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.6.11.05
- Maṇḍala · Anuvāka · Ṛk
- 10.01.095
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Havirdhāna Āṅgi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.