Ṛgveda · Maṇḍala 10 · Sūkta 176

Ṛk 10.176.4

Ṛbhus · Agni · Sūnu Ārbhava

The whole sūkta Link

Saṃhitā

अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः ।
सह॑सश्चि॒त्सही॑यांदे॒वो जी॒वात॑वे कृ॒तः ॥

अयम् अग्निर् उरुष्यत्य् अमृताद् इव जन्मनः |
सहसश् चित् सहीयान् देवो जीवातवे कृतः ||

ayámagníruruṣyatyamṛ́tādiva jánmanaḥ ǀ
sáhasaścitsáhīyāndevó jīvā́tave kṛtáḥ ǁ

ayam agnir uruṣyaty amṛtād iva janmanaḥ |
sahasaś cit sahīyān devo jīvātave kṛtaḥ ||

Padapāṭha

अ॒यम् । अ॒ग्निः । उ॒रु॒ष्य॒ति॒ । अ॒मृता॑त्ऽइव । जन्म॑नः ।
सह॑सः । चि॒त् । सही॑यान् । दे॒वः । जी॒वात॑वे । कृ॒तः ॥

अयम् । अग्निः । उरुष्यति । अमृतात्ऽइव । जन्मनः ।
सहसः । चित् । सहीयान् । देवः । जीवातवे । कृतः ॥

ayám ǀ agníḥ ǀ uruṣyati ǀ amṛ́tāt-iva ǀ jánmanaḥ ǀ
sáhasaḥ ǀ cit ǀ sáhīyān ǀ deváḥ ǀ jīvā́tave ǀ kṛtáḥ ǁ

ayam ǀ agniḥ ǀ uruṣyati ǀ amṛtāt-iva ǀ janmanaḥ ǀ
sahasaḥ ǀ cit ǀ sahīyān ǀ devaḥ ǀ jīvātave ǀ kṛtaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.176.04
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.34.04
Maṇḍala · Anuvāka · Ṛk
10.12.121
Devatā देवता
1: Ṛbhus; 2-4: Agni
Ṛṣi ऋषि
Sūnu Ārbhava
Chandas छन्दस्
Anuṣṭubh, Gāyatrī
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.176.4

Interpretations

Sāyaṇa

अयमग्निरमृतादमरणाद्देवनिमित्ताद्भयादिव जन्मनो जायमानान्मनुष्यनिमित्ताद्भयादप्युरुष्यति। तस्माद्रक्षति। उरुष्यती रक्षाकर्मेति यास्कः। नि. ५-२३। भाववाचिनोऽम्रुतशब्दस्य नञा बहुव्रीहौ नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम्। भीत्रार्थानाम्। पा. १-४-२५। इत्यपादानसंज्ञा। अपि चायं देवः सहसश्चित्। सह इति बलनाम। तस्मादुत्तरस्य मत्वर्थीयस्य बहुलं छन्दसीति लुक्। चिच्छब्दोऽप्यर्थः। सहस्वतो बलवतोऽपि सहीयान् बलवत्तरः। सहस्विशब्दादीयसुनि विन्मतोरिति विनो लुक्। टेरिति टिलोपः। एवंभूतो देवो जीवातवे जीवनहेतवे यागाय कृतः। ब्रह्मना सृष्टः॥४॥