Ṛgveda · Maṇḍala 10 · Sūkta 30
Ṛk 10.30.12
Saṃhitā
आपो॑ रेवतीः॒ क्षय॑था॒ हि वस्वः॒ क्रतुं॑ च भ॒द्रं बि॑भृ॒थामृतं॑ च ।
रा॒यश्च॒ स्थ स्व॑प॒त्यस्य॒ पत्नीः॒ सर॑स्वती॒ तद्गृ॑ण॒ते वयो॑ धात् ॥
आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रम् बिभृथामृतं च |
रायश् च स्थ स्वपत्यस्य पत्नीः सरस्वती तद् गृणते वयो धात् ||
ā́po revatīḥ kṣáyathā hí vásvaḥ krátum ca bhadrám bibhṛthā́mṛ́tam ca ǀ
rāyáśca sthá svapatyásya pátnīḥ sárasvatī tádgṛṇaté váyo dhāt ǁ
āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadram bibhṛthāmṛtaṃ ca |
rāyaś ca stha svapatyasya patnīḥ sarasvatī tad gṛṇate vayo dhāt ||
Padapāṭha
आपः॑ । रे॒व॒तीः॒ । क्षय॑थ । हि । वस्वः॑ । क्रतु॑म् । च॒ । भ॒द्रम् । बि॒भृ॒थ । अ॒मृत॑म् । च॒ ।
रा॒यः । च॒ । स्थ । सु॒ऽअ॒प॒त्यस्य॑ । पत्नीः॑ । सर॑स्वती । तत् । गृ॒ण॒ते । वयः॑ । धा॒त् ॥
आपः । रेवतीः । क्षयथ । हि । वस्वः । क्रतुम् । च । भद्रम् । बिभृथ । अमृतम् । च ।
रायः । च । स्थ । सुऽअपत्यस्य । पत्नीः । सरस्वती । तत् । गृणते । वयः । धात् ॥
ā́paḥ ǀ revatīḥ ǀ kṣáyatha ǀ hí ǀ vásvaḥ ǀ krátum ǀ ca ǀ bhadrám ǀ bibhṛthá ǀ amṛ́tam ǀ ca ǀ
rāyáḥ ǀ ca ǀ sthá ǀ su-apatyásya ǀ pátnīḥ ǀ sárasvatī ǀ tát ǀ gṛṇaté ǀ váyaḥ ǀ dhāt ǁ
āpaḥ ǀ revatīḥ ǀ kṣayatha ǀ hi ǀ vasvaḥ ǀ kratum ǀ ca ǀ bhadram ǀ bibhṛtha ǀ amṛtam ǀ ca ǀ
rāyaḥ ǀ ca ǀ stha ǀ su-apatyasya ǀ patnīḥ ǀ sarasvatī ǀ tat ǀ gṛṇate ǀ vayaḥ ǀ dhāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.030.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.7.26.02
- Maṇḍala · Anuvāka · Ṛk
- 10.03.012
- Devatā देवता
- Apas
- Ṛṣi ऋषि
- Kavaṣa Ailūṣa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.