Ṛgveda · Maṇḍala 10 · Sūkta 69

Ṛk 10.69.12

Agni · Sumitra Vādhryaśva

The whole sūkta Link

Saṃhitā

अ॒यम॒ग्निर्व॑ध्र्य॒श्वस्य॑ वृत्र॒हा स॑न॒कात्प्रेद्धो॒ नम॑सोपवा॒क्यः॑ ।
स नो॒ अजा॑मीँरु॒त वा॒ विजा॑मीन॒भि ति॑ष्ठ॒ शर्ध॑तो वाध्र्यश्व ॥

अयम् अग्निर् वध्र्यश्वस्य वृत्रहा सनकात् प्रेद्धो नमसोपवाक्यः |
स नो अजामींर् उत वा विजामीन् अभि तिष्ठ शर्धतो वाध्र्यश्व ||

ayámagnírvadhryaśvásya vṛtrahā́ sanakā́tpréddho námasopavākyáḥ ǀ
sá no ájāmīm̐rutá vā víjāmīnabhí tiṣṭha śárdhato vādhryaśva ǁ

ayam agnir vadhryaśvasya vṛtrahā sanakāt preddho namasopavākyaḥ |
sa no ajāmīṃr uta vā vijāmīn abhi tiṣṭha śardhato vādhryaśva ||

Padapāṭha

अ॒यम् । अ॒ग्निः । व॒ध्रि॒ऽअ॒श्वस्य॑ । वृ॒त्र॒ऽहा । स॒न॒कात् । प्रऽइ॑द्धः । नम॑सा । उ॒प॒ऽवा॒क्यः॑ ।
सः । नः॒ । अजा॑मीन् । उ॒त । वा॒ । विऽजा॑मीन् । अ॒भि । ति॒ष्ठ॒ । शर्ध॑तः । वा॒ध्रि॒ऽअ॒श्व॒ ॥

अयम् । अग्निः । वध्रिऽअश्वस्य । वृत्रऽहा । सनकात् । प्रऽइद्धः । नमसा । उपऽवाक्यः ।
सः । नः । अजामीन् । उत । वा । विऽजामीन् । अभि । तिष्ठ । शर्धतः । वाध्रिऽअश्व ॥

ayám ǀ agníḥ ǀ vadhri-aśvásya ǀ vṛtra-hā́ ǀ sanakā́t ǀ prá-iddhaḥ ǀ námasā ǀ upa-vākyáḥ ǀ
sáḥ ǀ naḥ ǀ ájāmīn ǀ utá ǀ vā ǀ ví-jāmīn ǀ abhí ǀ tiṣṭha ǀ śárdhataḥ ǀ vādhri-aśva ǁ

ayam ǀ agniḥ ǀ vadhri-aśvasya ǀ vṛtra-hā ǀ sanakāt ǀ pra-iddhaḥ ǀ namasā ǀ upa-vākyaḥ ǀ
saḥ ǀ naḥ ǀ ajāmīn ǀ uta ǀ vā ǀ vi-jāmīn ǀ abhi ǀ tiṣṭha ǀ śardhataḥ ǀ vādhri-aśva ǁ

References

Maṇḍala · Sūkta · Ṛk
10.069.12
Aṣṭaka · Adhyāya · Varga · Ṛk
8.2.20.06
Maṇḍala · Anuvāka · Ṛk
10.06.012
Devatā देवता
Agni
Ṛṣi ऋषि
Sumitra Vādhryaśva
Chandas छन्दस्
Triṣṭubh, Jagatī
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.69.12

Interpretations

Sāyaṇa

वृत्रहा शत्रूणाम् हन्तायमग्निः सनकाच्चिरादारभ्य वध्र्यश्वस्य हविषा प्रेद्धः प्रकर्षेन दीपितो भवति। तथा तस्य नमसा नमस्कारेण सहोपवाक्य उपस्तोतव्यो भवति। हे वाध्र्यश्व वध्र्यश्वकुले मथनेन समुत्पन्नाग्ने स त्वं नोऽस्माकमजामीनज्ञातीञ्शत्रून् उत वापि वा शर्धतो हिंसतो विजामीन्विधाञ्जातीनप्यभितिष्थ। अभिबव॥१२॥