Ṛgveda · Maṇḍala 10 · Sūkta 49
Ṛk 10.49.3
Saṃhitā
अ॒हमत्कं॑ क॒वये॑ शिश्नथं॒ हथै॑र॒हं कुत्स॑मावमा॒भिरू॒तिभिः॑ ।
अ॒हं शुष्ण॑स्य॒ श्नथि॑ता॒ वध॑र्यमं॒ न यो र॒र आर्यं॒ नाम॒ दस्य॑वे ॥
अहम् अत्कं कवये शिश्नथं हथैर् अहं कुत्सम् आवम् आभिर् ऊतिभिः |
अहं शुष्णस्य श्नथिता वधर् यमं न यो रर आर्यं नाम दस्यवे ||
ahámátkam kaváye śiśnatham háthairahám kútsamāvamābhírūtíbhiḥ ǀ
ahám śúṣṇasya śnáthitā vádharyamam ná yó rará ā́ryam nā́ma dásyave ǁ
aham atkaṃ kavaye śiśnathaṃ hathair ahaṃ kutsam āvam ābhir ūtibhiḥ |
ahaṃ śuṣṇasya śnathitā vadhar yamaṃ na yo rara āryaṃ nāma dasyave ||
Padapāṭha
अ॒हम् । अत्क॑म् । क॒वये॑ । शि॒श्न॒थ॒म् । हथैः॑ । अ॒हम् । कुत्स॑म् । आ॒व॒म् । आ॒भिः । ऊ॒तिऽभिः॑ ।
अ॒हम् । शुष्ण॑स्य । श्नथि॑ता । वधः॑ । य॒म॒म् । न । यः । र॒रे । आर्य॑म् । नाम॑ । दस्य॑वे ॥
अहम् । अत्कम् । कवये । शिश्नथम् । हथैः । अहम् । कुत्सम् । आवम् । आभिः । ऊतिऽभिः ।
अहम् । शुष्णस्य । श्नथिता । वधः । यमम् । न । यः । ररे । आर्यम् । नाम । दस्यवे ॥
ahám ǀ átkam ǀ kaváye ǀ śiśnatham ǀ háthaiḥ ǀ ahám ǀ kútsam ǀ āvam ǀ ābhíḥ ǀ ūtí-bhiḥ ǀ
ahám ǀ śúṣṇasya ǀ śnáthitā ǀ vádhaḥ ǀ yamam ǀ ná ǀ yáḥ ǀ raré ǀ ā́ryam ǀ nā́ma ǀ dásyave ǁ
aham ǀ atkam ǀ kavaye ǀ śiśnatham ǀ hathaiḥ ǀ aham ǀ kutsam ǀ āvam ǀ ābhiḥ ǀ ūti-bhiḥ ǀ
aham ǀ śuṣṇasya ǀ śnathitā ǀ vadhaḥ ǀ yamam ǀ na ǀ yaḥ ǀ rare ǀ āryam ǀ nāma ǀ dasyave ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.049.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.07.03
- Maṇḍala · Anuvāka · Ṛk
- 10.04.066
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Indra Vaikuṇṭha
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.