Ṛgveda · Maṇḍala 10 · Sūkta 49
Ṛk 10.49.6
Saṃhitā
अ॒हं स यो नव॑वास्त्वं बृ॒हद्र॑थं॒ सं वृ॒त्रेव॒ दासं॑ वृत्र॒हारु॑जं ।
यद्व॒र्धयं॑तं प्र॒थयं॑तमानु॒षग्दू॒रे पा॒रे रज॑सो रोच॒नाक॑रं ॥
अहं स यो नववास्त्वम् बृहद्रथं सं वृत्रेव दासं वृत्रहारुजम् |
यद् वर्धयन्तम् प्रथयन्तम् आनुषग् दूरे पारे रजसो रोचनाकरम् ||
ahám sá yó návavāstvam bṛhádratham sám vṛtréva dā́sam vṛtrahā́rujam ǀ
yádvardháyantam pratháyantamānuṣágdūré pāré rájaso rocanā́karam ǁ
ahaṃ sa yo navavāstvam bṛhadrathaṃ saṃ vṛtreva dāsaṃ vṛtrahārujam |
yad vardhayantam prathayantam ānuṣag dūre pāre rajaso rocanākaram ||
Padapāṭha
अ॒हम् । सः । यः । नव॑ऽवास्त्वम् । बृ॒हत्ऽर॑थम् । सम् । वृ॒त्राऽइ॑व । दास॑म् । वृ॒त्र॒ऽहा । अरु॑जम् ।
यत् । व॒र्धय॑न्तम् । प्र॒थय॑न्तम् । आ॒नु॒षक् । दू॒रे । पा॒रे । रज॑सः । रो॒च॒ना । अक॑रम् ॥
अहम् । सः । यः । नवऽवास्त्वम् । बृहत्ऽरथम् । सम् । वृत्राऽइव । दासम् । वृत्रऽहा । अरुजम् ।
यत् । वर्धयन्तम् । प्रथयन्तम् । आनुषक् । दूरे । पारे । रजसः । रोचना । अकरम् ॥
ahám ǀ sáḥ ǀ yáḥ ǀ náva-vāstvam ǀ bṛhát-ratham ǀ sám ǀ vṛtrā́-iva ǀ dā́sam ǀ vṛtra-hā́ ǀ árujam ǀ
yát ǀ vardháyantam ǀ pratháyantam ǀ ānuṣák ǀ dūré ǀ pāré ǀ rájasaḥ ǀ rocanā́ ǀ ákaram ǁ
aham ǀ saḥ ǀ yaḥ ǀ nava-vāstvam ǀ bṛhat-ratham ǀ sam ǀ vṛtrā-iva ǀ dāsam ǀ vṛtra-hā ǀ arujam ǀ
yat ǀ vardhayantam ǀ prathayantam ǀ ānuṣak ǀ dūre ǀ pāre ǀ rajasaḥ ǀ rocanā ǀ akaram ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.049.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.08.01
- Maṇḍala · Anuvāka · Ṛk
- 10.04.069
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Indra Vaikuṇṭha
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.