Ṛgveda · Maṇḍala 10 · Sūkta 49
Ṛk 10.49.8
Saṃhitā
अ॒हं स॑प्त॒हा नहु॑षो॒ नहु॑ष्टरः॒ प्राश्रा॑वयं॒ शव॑सा तु॒र्वशं॒ यदुं॑ ।
अ॒हं न्य१॒॑न्यं सह॑सा॒ सह॑स्करं॒ नव॒ व्राध॑तो नव॒तिं च॑ वक्षयं ॥
अहं सप्तहा नहुषो नहुष्टरः प्राश्रावयं शवसा तुर्वशं यदुम् |
अहं न्य् अन्यं सहसा सहस् करं नव व्राधतो नवतिं च वक्षयम् ||
ahám saptahā́ náhuṣo náhuṣṭaraḥ prā́śrāvayam śávasā turváśam yádum ǀ
ahám nyányám sáhasā sáhaskaram náva vrā́dhato navatím ca vakṣayam ǁ
ahaṃ saptahā nahuṣo nahuṣṭaraḥ prāśrāvayaṃ śavasā turvaśaṃ yadum |
ahaṃ ny anyaṃ sahasā sahas karaṃ nava vrādhato navatiṃ ca vakṣayam ||
Padapāṭha
अ॒हम् । स॒प्त॒ऽहा । नहु॑षः । नहुः॑ऽतरः । प्र । अ॒श्र॒व॒य॒म् । शव॑सा । तु॒र्वश॑म् । यदु॑म् ।
अ॒हम् । नि । अ॒न्यम् । सह॑सा । सहः॑ । क॒र॒म् । नव॑ । व्राध॑तः । न॒व॒तिम् । च॒ । व॒क्ष॒य॒म् ॥
अहम् । सप्तऽहा । नहुषः । नहुःऽतरः । प्र । अश्रवयम् । शवसा । तुर्वशम् । यदुम् ।
अहम् । नि । अन्यम् । सहसा । सहः । करम् । नव । व्राधतः । नवतिम् । च । वक्षयम् ॥
ahám ǀ sapta-hā́ ǀ náhuṣaḥ ǀ náhuḥ-taraḥ ǀ prá ǀ aśravayam ǀ śávasā ǀ turváśam ǀ yádum ǀ
ahám ǀ ní ǀ anyám ǀ sáhasā ǀ sáhaḥ ǀ karam ǀ náva ǀ vrā́dhataḥ ǀ navatím ǀ ca ǀ vakṣayam ǁ
aham ǀ sapta-hā ǀ nahuṣaḥ ǀ nahuḥ-taraḥ ǀ pra ǀ aśravayam ǀ śavasā ǀ turvaśam ǀ yadum ǀ
aham ǀ ni ǀ anyam ǀ sahasā ǀ sahaḥ ǀ karam ǀ nava ǀ vrādhataḥ ǀ navatim ǀ ca ǀ vakṣayam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.049.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.08.03
- Maṇḍala · Anuvāka · Ṛk
- 10.04.071
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Indra Vaikuṇṭha
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.