Ṛgveda · Maṇḍala 10 · Sūkta 31
Ṛk 10.31.8
Saṃhitā
नैताव॑दे॒ना प॒रो अ॒न्यद॑स्त्यु॒क्षा स द्यावा॑पृथि॒वी बि॑भर्ति ।
त्वचं॑ प॒वित्रं॑ कृणुत स्व॒धावा॒न्यदीं॒ सूर्यं॒ न ह॒रितो॒ वहं॑ति ॥
नैतावद् एना परो अन्यद् अस्त्य् उक्षा स द्यावापृथिवी बिभर्ति |
त्वचम् पवित्रं कृणुत स्वधावान् यद् ईं सूर्यं न हरितो वहन्ति ||
náitā́vadenā́ paró anyádastyukṣā́ sá dyā́vāpṛthivī́ bibharti ǀ
tvácam pavítram kṛṇuta svadhā́vānyádīm sū́ryam ná haríto váhanti ǁ
naitāvad enā paro anyad asty ukṣā sa dyāvāpṛthivī bibharti |
tvacam pavitraṃ kṛṇuta svadhāvān yad īṃ sūryaṃ na harito vahanti ||
Padapāṭha
न । ए॒ताव॑त् । ए॒ना । प॒रः । अ॒न्यत् । अ॒स्ति॒ । उ॒क्षा । सः । द्यावा॑पृथि॒वी इति॑ । बि॒भ॒र्ति॒ ।
त्वच॑म् । प॒वित्र॑म् । कृ॒णु॒त॒ । स्व॒धाऽवा॑न् । यत् । ई॒म् । सूर्य॑म् । न । ह॒रितः॑ । वह॑न्ति ॥
न । एतावत् । एना । परः । अन्यत् । अस्ति । उक्षा । सः । द्यावापृथिवी इति । बिभर्ति ।
त्वचम् । पवित्रम् । कृणुत । स्वधाऽवान् । यत् । ईम् । सूर्यम् । न । हरितः । वहन्ति ॥
ná ǀ etā́vat ǀ enā́ ǀ paráḥ ǀ anyát ǀ asti ǀ ukṣā́ ǀ sáḥ ǀ dyā́vāpṛthivī́ íti ǀ bibharti ǀ
tvácam ǀ pavítram ǀ kṛṇuta ǀ svadhā́-vān ǀ yát ǀ īm ǀ sū́ryam ǀ ná ǀ harítaḥ ǀ váhanti ǁ
na ǀ etāvat ǀ enā ǀ paraḥ ǀ anyat ǀ asti ǀ ukṣā ǀ saḥ ǀ dyāvāpṛthivī iti ǀ bibharti ǀ
tvacam ǀ pavitram ǀ kṛṇuta ǀ svadhā-vān ǀ yat ǀ īm ǀ sūryam ǀ na ǀ haritaḥ ǀ vahanti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.031.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.7.28.03
- Maṇḍala · Anuvāka · Ṛk
- 10.03.023
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Kavaṣa Ailūṣa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.