Ṛgveda · Maṇḍala 10 · Sūkta 31
Ṛk 10.31.5
Saṃhitā
इ॒यं सा भू॑या उ॒षसा॑मिव॒ क्षा यद्ध॑ क्षु॒मंतः॒ शव॑सा स॒माय॑न् ।
अ॒स्य स्तु॒तिं ज॑रि॒तुर्भिक्ष॑माणा॒ आ नः॑ श॒ग्मास॒ उप॑ यंतु॒ वाजाः॑ ॥
इयं सा भूया उषसाम् इव क्षा यद् ध क्षुमन्तः शवसा समायन् |
अस्य स्तुतिं जरितुर् भिक्षमाणा आ नः शग्मास उप यन्तु वाजाः ||
iyám sā́ bhūyā uṣásāmiva kṣā́ yáddha kṣumántaḥ śávasā samā́yan ǀ
asyá stutím jaritúrbhíkṣamāṇā ā́ naḥ śagmā́sa úpa yantu vā́jāḥ ǁ
iyaṃ sā bhūyā uṣasām iva kṣā yad dha kṣumantaḥ śavasā samāyan |
asya stutiṃ jaritur bhikṣamāṇā ā naḥ śagmāsa upa yantu vājāḥ ||
Padapāṭha
इ॒यम् । सा । भू॒याः॒ । उ॒षसा॑म्ऽइव । क्षाः । यत् । ह॒ । क्षु॒ऽमन्तः॑ । शव॑सा । स॒म्ऽआय॑न् ।
अ॒स्य । स्तु॒तिम् । ज॒रि॒तुः । भिक्ष॑माणाः । आ । नः॒ । श॒ग्मासः॑ । उप॑ । य॒न्तु॒ । वाजाः॑ ॥
इयम् । सा । भूयाः । उषसाम्ऽइव । क्षाः । यत् । ह । क्षुऽमन्तः । शवसा । सम्ऽआयन् ।
अस्य । स्तुतिम् । जरितुः । भिक्षमाणाः । आ । नः । शग्मासः । उप । यन्तु । वाजाः ॥
iyám ǀ sā́ ǀ bhūyāḥ ǀ uṣásām-iva ǀ kṣā́ḥ ǀ yát ǀ ha ǀ kṣu-mántaḥ ǀ śávasā ǀ sam-ā́yan ǀ
asyá ǀ stutím ǀ jaritúḥ ǀ bhíkṣamāṇāḥ ǀ ā́ ǀ naḥ ǀ śagmā́saḥ ǀ úpa ǀ yantu ǀ vā́jāḥ ǁ
iyam ǀ sā ǀ bhūyāḥ ǀ uṣasām-iva ǀ kṣāḥ ǀ yat ǀ ha ǀ kṣu-mantaḥ ǀ śavasā ǀ sam-āyan ǀ
asya ǀ stutim ǀ jarituḥ ǀ bhikṣamāṇāḥ ǀ ā ǀ naḥ ǀ śagmāsaḥ ǀ upa ǀ yantu ǀ vājāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.031.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.7.27.05
- Maṇḍala · Anuvāka · Ṛk
- 10.03.020
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Kavaṣa Ailūṣa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.