Ṛgveda · Maṇḍala 10 · Sūkta 61
Ṛk 10.61.23
Saṃhitā
अध॒ यद्रा॑जाना॒ गवि॑ष्टौ॒ सर॑त्सर॒ण्युः का॒रवे॑ जर॒ण्युः ।
विप्रः॒ प्रेष्ठः॒ स ह्ये॑षां ब॒भूव॒ परा॑ च॒ वक्ष॑दु॒त प॑र्षदेनान् ॥
अध यद् राजाना गविष्टौ सरत् सरण्युः कारवे जरण्युः |
विप्रः प्रेष्ठः स ह्य् एषाम् बभूव परा च वक्षद् उत पर्षद् एनान् ||
ádha yádrājānā gáviṣṭau sáratsaraṇyúḥ kāráve jaraṇyúḥ ǀ
vípraḥ préṣṭhaḥ sá hyéṣām babhū́va párā ca vákṣadutá parṣadenān ǁ
adha yad rājānā gaviṣṭau sarat saraṇyuḥ kārave jaraṇyuḥ |
vipraḥ preṣṭhaḥ sa hy eṣām babhūva parā ca vakṣad uta parṣad enān ||
Padapāṭha
अध॑ । यत् । रा॒जा॒ना॒ । गोऽइ॑ष्टौ । सर॑त् । स॒र॒ण्युः । का॒रवे॑ । ज॒र॒ण्युः ।
विप्रः॑ । प्रेष्ठः॑ । सः । हि । ए॒षा॒म् । ब॒भूव॑ । परा॑ । च॒ । वक्ष॑त् । उ॒त । प॒र्ष॒त् । ए॒ना॒न् ॥
अध । यत् । राजाना । गोऽइष्टौ । सरत् । सरण्युः । कारवे । जरण्युः ।
विप्रः । प्रेष्ठः । सः । हि । एषाम् । बभूव । परा । च । वक्षत् । उत । पर्षत् । एनान् ॥
ádha ǀ yát ǀ rājānā ǀ gó-iṣṭau ǀ sárat ǀ saraṇyúḥ ǀ kāráve ǀ jaraṇyúḥ ǀ
vípraḥ ǀ préṣṭhaḥ ǀ sáḥ ǀ hí ǀ eṣām ǀ babhū́va ǀ párā ǀ ca ǀ vákṣat ǀ utá ǀ parṣat ǀ enān ǁ
adha ǀ yat ǀ rājānā ǀ go-iṣṭau ǀ sarat ǀ saraṇyuḥ ǀ kārave ǀ jaraṇyuḥ ǀ
vipraḥ ǀ preṣṭhaḥ ǀ saḥ ǀ hi ǀ eṣām ǀ babhūva ǀ parā ǀ ca ǀ vakṣat ǀ uta ǀ parṣat ǀ enān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.061.23
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.30.03
- Maṇḍala · Anuvāka · Ṛk
- 10.05.023
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Nābhānediṣṭha Mānava
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.