Ṛgveda · Maṇḍala 10 · Sūkta 61
Ṛk 10.61.18
Saṃhitā
तद्बं॑धुः सू॒रिर्दि॒वि ते॑ धियं॒धा नाभा॒नेदि॑ष्ठो रपति॒ प्र वेन॑न् ।
सा नो॒ नाभिः॑ पर॒मास्य वा॑ घा॒हं तत्प॒श्चा क॑ति॒थश्चि॑दास ॥
तद्बन्धुः सूरिर् दिवि ते धियन्धा नाभानेदिष्ठो रपति प्र वेनन् |
सा नो नाभिः परमास्य वा घाहं तत् पश्चा कतिथश् चिद् आस ||
tádbandhuḥ sūrírdiví te dhiyaṃdhā́ nā́bhānédiṣṭho rapati prá vénan ǀ
sā́ no nā́bhiḥ paramā́syá vā ghāhám tátpaścā́ katitháścidāsa ǁ
tadbandhuḥ sūrir divi te dhiyandhā nābhānediṣṭho rapati pra venan |
sā no nābhiḥ paramāsya vā ghāhaṃ tat paścā katithaś cid āsa ||
Padapāṭha
तत्ऽब॑न्धुः । सू॒रिः । दि॒वि । ते॒ । धि॒य॒म्ऽधाः । नाभा॒नेदि॑ष्ठः । र॒प॒ति॒ । प्र । वेन॑न् ।
सा । नः॒ । नाभिः॑ । प॒र॒मा । अ॒स्य । वा॒ । घ॒ । अ॒हम् । तत् । प॒श्चा । क॒ति॒थः । चि॒त् । आ॒स॒ ॥
तत्ऽबन्धुः । सूरिः । दिवि । ते । धियम्ऽधाः । नाभानेदिष्ठः । रपति । प्र । वेनन् ।
सा । नः । नाभिः । परमा । अस्य । वा । घ । अहम् । तत् । पश्चा । कतिथः । चित् । आस ॥
tát-bandhuḥ ǀ sūríḥ ǀ diví ǀ te ǀ dhiyam-dhā́ḥ ǀ nā́bhānédiṣṭhaḥ ǀ rapati ǀ prá ǀ vénan ǀ
sā́ ǀ naḥ ǀ nā́bhiḥ ǀ paramā́ ǀ asyá ǀ vā ǀ gha ǀ ahám ǀ tát ǀ paścā́ ǀ katitháḥ ǀ cit ǀ āsa ǁ
tat-bandhuḥ ǀ sūriḥ ǀ divi ǀ te ǀ dhiyam-dhāḥ ǀ nābhānediṣṭhaḥ ǀ rapati ǀ pra ǀ venan ǀ
sā ǀ naḥ ǀ nābhiḥ ǀ paramā ǀ asya ǀ vā ǀ gha ǀ aham ǀ tat ǀ paścā ǀ katithaḥ ǀ cit ǀ āsa ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.061.18
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.29.03
- Maṇḍala · Anuvāka · Ṛk
- 10.05.018
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Nābhānediṣṭha Mānava
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.