Ṛgveda · Maṇḍala 10 · Sūkta 61
Ṛk 10.61.22
Saṃhitā
अध॒ त्वमिं॑द्र वि॒द्ध्य१॒॑स्मान्म॒हो रा॒ये नृ॑पते॒ वज्र॑बाहुः ।
रक्षा॑ च नो म॒घोनः॑ पा॒हि सू॒रीन॑ने॒हस॑स्ते हरिवो अ॒भिष्टौ॑ ॥
अध त्वम् इन्द्र विद्ध्य् अस्मान् महो राये नृपते वज्रबाहुः |
रक्षा च नो मघोनः पाहि सूरीन् अनेहसस् ते हरिवो अभिष्टौ ||
ádha tvámindra viddhyásmā́nmahó rāyé nṛpate vájrabāhuḥ ǀ
rákṣā ca no maghónaḥ pāhí sūrī́nanehásaste harivo abhíṣṭau ǁ
adha tvam indra viddhy asmān maho rāye nṛpate vajrabāhuḥ |
rakṣā ca no maghonaḥ pāhi sūrīn anehasas te harivo abhiṣṭau ||
Padapāṭha
अध॑ । त्वम् । इ॒न्द्र॒ । वि॒द्धि । अ॒स्मान् । म॒हः । रा॒ये । नृ॒ऽप॒ते॒ । वज्र॑ऽबाहुः ।
रक्ष॑ । च॒ । नः॒ । म॒घोनः॑ । पा॒हि । सू॒रीन् । अ॒ने॒हसः॑ । ते॒ । ह॒रि॒ऽवः॒ । अ॒भिष्टौ॑ ॥
अध । त्वम् । इन्द्र । विद्धि । अस्मान् । महः । राये । नृऽपते । वज्रऽबाहुः ।
रक्ष । च । नः । मघोनः । पाहि । सूरीन् । अनेहसः । ते । हरिऽवः । अभिष्टौ ॥
ádha ǀ tvám ǀ indra ǀ viddhí ǀ asmā́n ǀ maháḥ ǀ rāyé ǀ nṛ-pate ǀ vájra-bāhuḥ ǀ
rákṣa ǀ ca ǀ naḥ ǀ maghónaḥ ǀ pāhí ǀ sūrī́n ǀ anehásaḥ ǀ te ǀ hari-vaḥ ǀ abhíṣṭau ǁ
adha ǀ tvam ǀ indra ǀ viddhi ǀ asmān ǀ mahaḥ ǀ rāye ǀ nṛ-pate ǀ vajra-bāhuḥ ǀ
rakṣa ǀ ca ǀ naḥ ǀ maghonaḥ ǀ pāhi ǀ sūrīn ǀ anehasaḥ ǀ te ǀ hari-vaḥ ǀ abhiṣṭau ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.061.22
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.30.02
- Maṇḍala · Anuvāka · Ṛk
- 10.05.022
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Nābhānediṣṭha Mānava
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.