Ṛgveda · Maṇḍala 10 · Sūkta 61
Ṛk 10.61.26
Saṃhitā
स गृ॑णा॒नो अ॒द्भिर्दे॒ववा॒निति॑ सु॒बंधु॒र्नम॑सा सू॒क्तैः ।
वर्ध॑दु॒क्थैर्वचो॑भि॒रा हि नू॒नं व्यध्वै॑ति॒ पय॑स उ॒स्रिया॑याः ॥
स गृणानो अद्भिर् देववान् इति सुबन्धुर् नमसा सूक्तैः |
वर्धद् उक्थैर् वचोभिर् आ हि नूनं व्य् अध्वैति पयस उस्रियायाः ||
sá gṛṇānó adbhírdevávāníti subándhurnámasā sūktáiḥ ǀ
várdhaduktháirvácobhirā́ hí nūnám vyádhvaiti páyasa usríyāyāḥ ǁ
sa gṛṇāno adbhir devavān iti subandhur namasā sūktaiḥ |
vardhad ukthair vacobhir ā hi nūnaṃ vy adhvaiti payasa usriyāyāḥ ||
Padapāṭha
सः । गृ॒णा॒नः । अ॒त्ऽभिः । दे॒वऽवा॑न् । इति॑ । सु॒ऽबन्धुः॑ । नम॑सा । सु॒ऽउ॒क्तैः ।
वर्ध॑त् । उ॒क्थैः । वचः॑ऽभिः । आ । हि । नू॒नम् । वि । अध्वा॑ । ए॒ति॒ । पय॑सः । उ॒स्रिया॑याः ॥
सः । गृणानः । अत्ऽभिः । देवऽवान् । इति । सुऽबन्धुः । नमसा । सुऽउक्तैः ।
वर्धत् । उक्थैः । वचःऽभिः । आ । हि । नूनम् । वि । अध्वा । एति । पयसः । उस्रियायाः ॥
sáḥ ǀ gṛṇānáḥ ǀ at-bhíḥ ǀ devá-vān ǀ íti ǀ su-bándhuḥ ǀ námasā ǀ su-uktáiḥ ǀ
várdhat ǀ uktháiḥ ǀ vácaḥ-bhiḥ ǀ ā́ ǀ hí ǀ nūnám ǀ ví ǀ ádhvā ǀ eti ǀ páyasaḥ ǀ usríyāyāḥ ǁ
saḥ ǀ gṛṇānaḥ ǀ at-bhiḥ ǀ deva-vān ǀ iti ǀ su-bandhuḥ ǀ namasā ǀ su-uktaiḥ ǀ
vardhat ǀ ukthaiḥ ǀ vacaḥ-bhiḥ ǀ ā ǀ hi ǀ nūnam ǀ vi ǀ adhvā ǀ eti ǀ payasaḥ ǀ usriyāyāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.061.26
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.30.06
- Maṇḍala · Anuvāka · Ṛk
- 10.05.026
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Nābhānediṣṭha Mānava
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.