Ṛgveda · Maṇḍala 10 · Sūkta 61
Ṛk 10.61.1
Saṃhitā
इ॒दमि॒त्था रौद्रं॑ गू॒र्तव॑चा॒ ब्रह्म॒ क्रत्वा॒ शच्या॑मं॒तरा॒जौ ।
क्रा॒णा यद॑स्य पि॒तरा॑ मंहने॒ष्ठाः पर्ष॑त्प॒क्थे अह॒न्ना स॒प्त होतॄ॑न् ॥
इदम् इत्था रौद्रं गूर्तवचा ब्रह्म क्रत्वा शच्याम् अन्तर् आजौ |
क्राणा यद् अस्य पितरा मंहनेष्ठाः पर्षत् पक्थे अहन्न् आ सप्त होतॄन् ||
idámitthā́ ráudram gūrtávacā bráhma krátvā śácyāmantárājáu ǀ
krāṇā́ yádasya pitárā maṃhaneṣṭhā́ḥ párṣatpakthé áhannā́ saptá hótṝn ǁ
idam itthā raudraṃ gūrtavacā brahma kratvā śacyām antar ājau |
krāṇā yad asya pitarā maṃhaneṣṭhāḥ parṣat pakthe ahann ā sapta hotṝn ||
Padapāṭha
इ॒दम् । इ॒त्था । रौद्र॑म् । गू॒र्तऽव॑चाः । ब्रह्म॑ । क्रत्वा॑ । शच्या॑म् । अ॒न्तः । आ॒जौ ।
क्रा॒णा । यत् । अ॒स्य॒ । पि॒तरा॑ । मं॒ह॒ने॒ऽस्थाः । पर्ष॑त् । प॒क्थे । अह॑न् । आ । स॒प्त । होतॄ॑न् ॥
इदम् । इत्था । रौद्रम् । गूर्तऽवचाः । ब्रह्म । क्रत्वा । शच्याम् । अन्तः । आजौ ।
क्राणा । यत् । अस्य । पितरा । मंहनेऽस्थाः । पर्षत् । पक्थे । अहन् । आ । सप्त । होतॄन् ॥
idám ǀ itthā́ ǀ ráudram ǀ gūrtá-vacāḥ ǀ bráhma ǀ krátvā ǀ śácyām ǀ antáḥ ǀ ājáu ǀ
krāṇā́ ǀ yát ǀ asya ǀ pitárā ǀ maṃhane-sthā́ḥ ǀ párṣat ǀ pakthé ǀ áhan ǀ ā́ ǀ saptá ǀ hótṝn ǁ
idam ǀ itthā ǀ raudram ǀ gūrta-vacāḥ ǀ brahma ǀ kratvā ǀ śacyām ǀ antaḥ ǀ ājau ǀ
krāṇā ǀ yat ǀ asya ǀ pitarā ǀ maṃhane-sthāḥ ǀ parṣat ǀ pakthe ǀ ahan ǀ ā ǀ sapta ǀ hotṝn ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.061.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.26.01
- Maṇḍala · Anuvāka · Ṛk
- 10.05.001
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Nābhānediṣṭha Mānava
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.