Ṛgveda · Maṇḍala 10 · Sūkta 61
Ṛk 10.61.3
Saṃhitā
मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विपः॒ शच्या॑ वनु॒थो द्रवं॑ता ।
आ यः शर्या॑भिस्तुविनृ॒म्णो अ॒स्याश्री॑णीता॒दिशं॒ गभ॑स्तौ ॥
मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता |
आ यः शर्याभिस् तुविनृम्णो अस्याश्रीणीतादिशं गभस्तौ ||
máno ná yéṣu hávaneṣu tigmám vípaḥ śácyā vanuthó drávantā ǀ
ā́ yáḥ śáryābhistuvinṛmṇó asyā́śrīṇītādíśam gábhastau ǁ
mano na yeṣu havaneṣu tigmaṃ vipaḥ śacyā vanutho dravantā |
ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṃ gabhastau ||
Padapāṭha
मनः॑ । न । येषु॑ । हव॑नेषु । ति॒ग्मम् । विपः॑ । शच्या॑ । व॒नु॒थः । द्रव॑न्ता ।
आ । यः । शर्या॑भिः । तु॒वि॒ऽनृ॒म्णः । अ॒स्य॒ । अश्री॑णीत । आ॒ऽदिश॑म् । गभ॑स्तौ ॥
मनः । न । येषु । हवनेषु । तिग्मम् । विपः । शच्या । वनुथः । द्रवन्ता ।
आ । यः । शर्याभिः । तुविऽनृम्णः । अस्य । अश्रीणीत । आऽदिशम् । गभस्तौ ॥
mánaḥ ǀ ná ǀ yéṣu ǀ hávaneṣu ǀ tigmám ǀ vípaḥ ǀ śácyā ǀ vanutháḥ ǀ drávantā ǀ
ā́ ǀ yáḥ ǀ śáryābhiḥ ǀ tuvi-nṛmṇáḥ ǀ asya ǀ áśrīṇīta ǀ ā-díśam ǀ gábhastau ǁ
manaḥ ǀ na ǀ yeṣu ǀ havaneṣu ǀ tigmam ǀ vipaḥ ǀ śacyā ǀ vanuthaḥ ǀ dravantā ǀ
ā ǀ yaḥ ǀ śaryābhiḥ ǀ tuvi-nṛmṇaḥ ǀ asya ǀ aśrīṇīta ǀ ā-diśam ǀ gabhastau ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.061.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.26.03
- Maṇḍala · Anuvāka · Ṛk
- 10.05.003
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Nābhānediṣṭha Mānava
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.