Ṛgveda · Maṇḍala 10 · Sūkta 61
Ṛk 10.61.7
Saṃhitā
पि॒ता यत्स्वां दु॑हि॒तर॑मधि॒ष्कन्क्ष्म॒या रेतः॑ संजग्मा॒नो नि षिं॑चत् ।
स्वा॒ध्यो॑ऽजनय॒न्ब्रह्म॑ दे॒वा वास्तो॒ष्पतिं॑ व्रत॒पां निर॑तक्षन् ॥
पिता यत् स्वां दुहितरम् अधिष्कन् क्ष्मया रेतः संजग्मानो नि षिञ्चत् |
स्वाध्यो ऽजनयन् ब्रह्म देवा वास्तोष् पतिं व्रतपां निर् अतक्षन् ||
pitā́ yátsvā́m duhitáramadhiṣkánkṣmayā́ rétaḥ saṃjagmānó ní ṣiñcat ǀ
svādhyó’janayanbráhma devā́ vā́stoṣpátim vratapā́m níratakṣan ǁ
pitā yat svāṃ duhitaram adhiṣkan kṣmayā retaḥ saṃjagmāno ni ṣiñcat |
svādhyo 'janayan brahma devā vāstoṣ patiṃ vratapāṃ nir atakṣan ||
Padapāṭha
पि॒ता । यत् । स्वाम् । दु॒हि॒तर॑म् । अ॒धि॒ऽस्कन् । क्ष्म॒या । रेतः॑ । स॒म्ऽज॒ग्मा॒नः । नि । सि॒ञ्च॒त् ।
सु॒ऽआ॒ध्यः॑ । अ॒ज॒न॒य॒न् । ब्रह्म॑ । दे॒वाः । वास्तोः॑ । पति॑म् । व्र॒त॒ऽपाम् । निः । अ॒त॒क्ष॒न् ॥
पिता । यत् । स्वाम् । दुहितरम् । अधिऽस्कन् । क्ष्मया । रेतः । सम्ऽजग्मानः । नि । सिञ्चत् ।
सुऽआध्यः । अजनयन् । ब्रह्म । देवाः । वास्तोः । पतिम् । व्रतऽपाम् । निः । अतक्षन् ॥
pitā́ ǀ yát ǀ svā́m ǀ duhitáram ǀ adhi-skán ǀ kṣmayā́ ǀ rétaḥ ǀ sam-jagmānáḥ ǀ ní ǀ siñcat ǀ
su-ādhyáḥ ǀ ajanayan ǀ bráhma ǀ devā́ḥ ǀ vā́stoḥ ǀ pátim ǀ vrata-pā́m ǀ níḥ ǀ atakṣan ǁ
pitā ǀ yat ǀ svām ǀ duhitaram ǀ adhi-skan ǀ kṣmayā ǀ retaḥ ǀ sam-jagmānaḥ ǀ ni ǀ siñcat ǀ
su-ādhyaḥ ǀ ajanayan ǀ brahma ǀ devāḥ ǀ vāstoḥ ǀ patim ǀ vrata-pām ǀ niḥ ǀ atakṣan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.061.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.27.02
- Maṇḍala · Anuvāka · Ṛk
- 10.05.007
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Nābhānediṣṭha Mānava
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.