Ṛgveda · Maṇḍala 10 · Sūkta 61
Ṛk 10.61.19
Saṃhitā
इ॒यं मे॒ नाभि॑रि॒ह मे॑ स॒धस्थ॑मि॒मे मे॑ दे॒वा अ॒यम॑स्मि॒ सर्वः॑ ।
द्वि॒जा अह॑ प्रथम॒जा ऋ॒तस्ये॒दं धे॒नुर॑दुह॒ज्जाय॑माना ॥
इयम् मे नाभिर् इह मे सधस्थम् इमे मे देवा अयम् अस्मि सर्वः |
द्विजा अह प्रथमजा ऋतस्येदं धेनुर् अदुहज् जायमाना ||
iyám me nā́bhirihá me sadhásthamimé me devā́ ayámasmi sárvaḥ ǀ
dvijā́ áha prathamajā́ ṛtásyedám dhenúraduhajjā́yamānā ǁ
iyam me nābhir iha me sadhastham ime me devā ayam asmi sarvaḥ |
dvijā aha prathamajā ṛtasyedaṃ dhenur aduhaj jāyamānā ||
Padapāṭha
इ॒यम् । मे॒ । नाभिः॑ । इ॒ह । मे॒ । स॒धऽस्थ॑म् । इ॒मे । मे॒ । दे॒वाः । अ॒यम् । अ॒स्मि॒ । सर्वः॑ ।
द्वि॒ऽजाः । अह॑ । प्र॒थ॒म॒ऽजाः । ऋ॒तस्य॑ । इ॒दम् । धे॒नुः । अ॒दु॒ह॒त् । जाय॑माना ॥
इयम् । मे । नाभिः । इह । मे । सधऽस्थम् । इमे । मे । देवाः । अयम् । अस्मि । सर्वः ।
द्विऽजाः । अह । प्रथमऽजाः । ऋतस्य । इदम् । धेनुः । अदुहत् । जायमाना ॥
iyám ǀ me ǀ nā́bhiḥ ǀ ihá ǀ me ǀ sadhá-stham ǀ imé ǀ me ǀ devā́ḥ ǀ ayám ǀ asmi ǀ sárvaḥ ǀ
dvi-jā́ḥ ǀ áha ǀ prathama-jā́ḥ ǀ ṛtásya ǀ idám ǀ dhenúḥ ǀ aduhat ǀ jā́yamānā ǁ
iyam ǀ me ǀ nābhiḥ ǀ iha ǀ me ǀ sadha-stham ǀ ime ǀ me ǀ devāḥ ǀ ayam ǀ asmi ǀ sarvaḥ ǀ
dvi-jāḥ ǀ aha ǀ prathama-jāḥ ǀ ṛtasya ǀ idam ǀ dhenuḥ ǀ aduhat ǀ jāyamānā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.061.19
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.29.04
- Maṇḍala · Anuvāka · Ṛk
- 10.05.019
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Nābhānediṣṭha Mānava
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.