Ṛgveda · Maṇḍala 10 · Sūkta 61
Ṛk 10.61.6
Saṃhitā
म॒ध्या यत्कर्त्व॒मभ॑वद॒भीके॒ कामं॑ कृण्वा॒ने पि॒तरि॑ युव॒त्यां ।
म॒ना॒नग्रेतो॑ जहतुर्वि॒यंता॒ सानौ॒ निषि॑क्तं सुकृ॒तस्य॒ योनौ॑ ॥
मध्या यत् कर्त्वम् अभवद् अभीके कामं कृण्वाने पितरि युवत्याम् |
मनानग् रेतो जहतुर् वियन्ता सानौ निषिक्तं सुकृतस्य योनौ ||
madhyā́ yátkártvamábhavadabhī́ke kā́mam kṛṇvāné pitári yuvatyā́m ǀ
manānágréto jahaturviyántā sā́nau níṣiktam sukṛtásya yónau ǁ
madhyā yat kartvam abhavad abhīke kāmaṃ kṛṇvāne pitari yuvatyām |
manānag reto jahatur viyantā sānau niṣiktaṃ sukṛtasya yonau ||
Padapāṭha
म॒ध्या । यत् । कर्त्व॑म् । अभ॑वत् । अ॒भीके॑ । काम॑म् । कृ॒ण्वा॒ने । पि॒तरि॑ । यु॒व॒त्याम् ।
म॒ना॒नक् । रेतः॑ । ज॒ह॒तुः॒ । वि॒ऽयन्ता॑ । सानौ॑ । निऽसि॑क्तम् । सु॒ऽकृ॒तस्य॑ । योनौ॑ ॥
मध्या । यत् । कर्त्वम् । अभवत् । अभीके । कामम् । कृण्वाने । पितरि । युवत्याम् ।
मनानक् । रेतः । जहतुः । विऽयन्ता । सानौ । निऽसिक्तम् । सुऽकृतस्य । योनौ ॥
madhyā́ ǀ yát ǀ kártvam ǀ ábhavat ǀ abhī́ke ǀ kā́mam ǀ kṛṇvāné ǀ pitári ǀ yuvatyā́m ǀ
manānák ǀ rétaḥ ǀ jahatuḥ ǀ vi-yántā ǀ sā́nau ǀ ní-siktam ǀ su-kṛtásya ǀ yónau ǁ
madhyā ǀ yat ǀ kartvam ǀ abhavat ǀ abhīke ǀ kāmam ǀ kṛṇvāne ǀ pitari ǀ yuvatyām ǀ
manānak ǀ retaḥ ǀ jahatuḥ ǀ vi-yantā ǀ sānau ǀ ni-siktam ǀ su-kṛtasya ǀ yonau ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.061.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.27.01
- Maṇḍala · Anuvāka · Ṛk
- 10.05.006
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Nābhānediṣṭha Mānava
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.