Ṛgveda · Maṇḍala 10 · Sūkta 3
Ṛk 10.3.3
Saṃhitā
भ॒द्रो भ॒द्रया॒ सच॑मान॒ आगा॒त्स्वसा॑रं जा॒रो अ॒भ्ये॑ति प॒श्चात् ।
सु॒प्र॒के॒तैर्द्युभि॑र॒ग्निर्वि॒तिष्ठ॒न्रुश॑द्भि॒र्वर्णै॑र॒भि रा॒मम॑स्थात् ॥
भद्रो भद्रया सचमान आगात् स्वसारं जारो अभ्य् एति पश्चात् |
सुप्रकेतैर् द्युभिर् अग्निर् वितिष्ठन् रुशद्भिर् वर्णैर् अभि रामम् अस्थात् ||
bhadró bhadráyā sácamāna ā́gātsvásāram jāró abhyéti paścā́t ǀ
supraketáirdyúbhiragnírvitíṣṭhanrúśadbhirvárṇairabhí rāmámasthāt ǁ
bhadro bhadrayā sacamāna āgāt svasāraṃ jāro abhy eti paścāt |
supraketair dyubhir agnir vitiṣṭhan ruśadbhir varṇair abhi rāmam asthāt ||
Padapāṭha
भ॒द्रः । भ॒द्रया॑ । सच॑मानः । आ । अ॒गा॒त् । स्वसा॑रम् । जा॒रः । अ॒भि । ए॒ति॒ । प॒श्चात् ।
सु॒ऽप्र॒के॒तैः । द्युऽभिः॑ । अ॒ग्निः । वि॒ऽतिष्ठ॑न् । रुश॑त्ऽभिः । वर्णैः॑ । अ॒भि । रा॒मम् । अ॒स्था॒त् ॥
भद्रः । भद्रया । सचमानः । आ । अगात् । स्वसारम् । जारः । अभि । एति । पश्चात् ।
सुऽप्रकेतैः । द्युऽभिः । अग्निः । विऽतिष्ठन् । रुशत्ऽभिः । वर्णैः । अभि । रामम् । अस्थात् ॥
bhadráḥ ǀ bhadráyā ǀ sácamānaḥ ǀ ā́ ǀ agāt ǀ svásāram ǀ jāráḥ ǀ abhí ǀ eti ǀ paścā́t ǀ
su-praketáiḥ ǀ dyú-bhiḥ ǀ agníḥ ǀ vi-tíṣṭhan ǀ rúśat-bhiḥ ǀ várṇaiḥ ǀ abhí ǀ rāmám ǀ asthāt ǁ
bhadraḥ ǀ bhadrayā ǀ sacamānaḥ ǀ ā ǀ agāt ǀ svasāram ǀ jāraḥ ǀ abhi ǀ eti ǀ paścāt ǀ
su-praketaiḥ ǀ dyu-bhiḥ ǀ agniḥ ǀ vi-tiṣṭhan ǀ ruśat-bhiḥ ǀ varṇaiḥ ǀ abhi ǀ rāmam ǀ asthāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.003.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.5.31.03
- Maṇḍala · Anuvāka · Ṛk
- 10.01.017
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.