Ṛgveda · Maṇḍala 10 · Sūkta 3

Ṛk 10.3.7

Agni · Trita Āptya

The whole sūkta Link

Saṃhitā

स आ व॑क्षि॒ महि॑ न॒ आ च॑ सत्सि दि॒वस्पृ॑थि॒व्योर॑र॒तिर्यु॑व॒त्योः ।
अ॒ग्निः सु॒तुकः॑ सु॒तुके॑भि॒रश्वै॒ रभ॑स्वद्भी॒ रभ॑स्वाँ॒ एह ग॑म्याः ॥

स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योर् अरतिर् युवत्योः |
अग्निः सुतुकः सुतुकेभिर् अश्वै रभस्वद्भी रभस्वां एह गम्याः ||

sá ā́ vakṣi máhi na ā́ ca satsi diváspṛthivyóraratíryuvatyóḥ ǀ
agníḥ sutúkaḥ sutúkebhiráśvai rábhasvadbhī rábhasvām̐ éhá gamyāḥ ǁ

sa ā vakṣi mahi na ā ca satsi divaspṛthivyor aratir yuvatyoḥ |
agniḥ sutukaḥ sutukebhir aśvai rabhasvadbhī rabhasvāṃ eha gamyāḥ ||

Padapāṭha

सः । आ । व॒क्षि॒ । महि॑ । नः॒ । आ । च॒ । स॒त्सि॒ । दि॒वःपृ॑थि॒व्योः । अ॒र॒तिः । यु॒व॒त्योः ।
अ॒ग्निः । सु॒ऽतुकः॑ । सु॒ऽतुके॑भिः । अश्वैः॑ । रभ॑स्वत्ऽभिः । रभ॑स्वान् । आ । इ॒ह । ग॒म्याः॒ ॥

सः । आ । वक्षि । महि । नः । आ । च । सत्सि । दिवःपृथिव्योः । अरतिः । युवत्योः ।
अग्निः । सुऽतुकः । सुऽतुकेभिः । अश्वैः । रभस्वत्ऽभिः । रभस्वान् । आ । इह । गम्याः ॥

sáḥ ǀ ā́ ǀ vakṣi ǀ máhi ǀ naḥ ǀ ā́ ǀ ca ǀ satsi ǀ diváḥpṛthivyóḥ ǀ aratíḥ ǀ yuvatyóḥ ǀ
agníḥ ǀ su-túkaḥ ǀ su-túkebhiḥ ǀ áśvaiḥ ǀ rábhasvat-bhiḥ ǀ rábhasvān ǀ ā́ ǀ ihá ǀ gamyāḥ ǁ

saḥ ǀ ā ǀ vakṣi ǀ mahi ǀ naḥ ǀ ā ǀ ca ǀ satsi ǀ divaḥpṛthivyoḥ ǀ aratiḥ ǀ yuvatyoḥ ǀ
agniḥ ǀ su-tukaḥ ǀ su-tukebhiḥ ǀ aśvaiḥ ǀ rabhasvat-bhiḥ ǀ rabhasvān ǀ ā ǀ iha ǀ gamyāḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.003.07
Aṣṭaka · Adhyāya · Varga · Ṛk
7.5.31.07
Maṇḍala · Anuvāka · Ṛk
10.01.021
Devatā देवता
Agni
Ṛṣi ऋषि
Trita Āptya
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.3.7

Interpretations

Sāyaṇa

प्रतइति सप्तर्चं चतुर्थं सूक्तं रुष्याद्याः पूर्ववत् । प्रतइत्यनुक्रान्तं । प्रातरनुवाकाश्विन- शस्त्रयोरुक्तोविनियोगः ।