Ṛgveda · Maṇḍala 10 · Sūkta 74
Ṛk 10.74.6
Saṃhitā
यद्वा॒वान॑ पुरु॒तमं॑ पुरा॒षाळा वृ॑त्र॒हेंद्रो॒ नामा॑न्यप्राः ।
अचे॑ति प्रा॒सह॒स्पति॒स्तुवि॑ष्मा॒न्यदी॑मु॒श्मसि॒ कर्त॑वे॒ कर॒त्तत् ॥
यद् वावान पुरुतमम् पुराषाऌ आ वृत्रहेन्द्रो नामान्य् अप्राः |
अचेति प्रासहस् पतिस् तुविष्मान् यद् ईम् उश्मसि कर्तवे करत् तत् ||
yádvāvā́na purutámam purāṣā́ḷā́ vṛtrahéndro nā́mānyaprāḥ ǀ
áceti prāsáhaspátistúviṣmānyádīmuśmási kártave kárattát ǁ
yad vāvāna purutamam purāṣāḷ ā vṛtrahendro nāmāny aprāḥ |
aceti prāsahas patis tuviṣmān yad īm uśmasi kartave karat tat ||
Padapāṭha
यत् । व॒वान॑ । पु॒रु॒ऽतम॑म् । पु॒रा॒षाट् । आ । वृ॒त्र॒ऽहा । इन्द्रः॑ । नामा॑नि । अ॒प्राः॒ ।
अचे॑ति । प्र॒ऽसहः॑ । पतिः॑ । तुवि॑ष्मान् । यत् । ई॒म् । उ॒श्मसि॑ । कर्त॑वे । कर॑त् । तत् ॥
यत् । ववान । पुरुऽतमम् । पुराषाट् । आ । वृत्रऽहा । इन्द्रः । नामानि । अप्राः ।
अचेति । प्रऽसहः । पतिः । तुविष्मान् । यत् । ईम् । उश्मसि । कर्तवे । करत् । तत् ॥
yát ǀ vavā́na ǀ puru-támam ǀ purāṣā́ṭ ǀ ā́ ǀ vṛtra-hā́ ǀ índraḥ ǀ nā́māni ǀ aprāḥ ǀ
áceti ǀ pra-sáhaḥ ǀ pátiḥ ǀ túviṣmān ǀ yát ǀ īm ǀ uśmási ǀ kártave ǀ kárat ǀ tát ǁ
yat ǀ vavāna ǀ puru-tamam ǀ purāṣāṭ ǀ ā ǀ vṛtra-hā ǀ indraḥ ǀ nāmāni ǀ aprāḥ ǀ
aceti ǀ pra-sahaḥ ǀ patiḥ ǀ tuviṣmān ǀ yat ǀ īm ǀ uśmasi ǀ kartave ǀ karat ǀ tat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.074.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.05.06
- Maṇḍala · Anuvāka · Ṛk
- 10.06.060
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gaurivīti Śāktya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.