Ṛgveda · Maṇḍala 10 · Sūkta 67
Ṛk 10.67.4
Saṃhitā
अ॒वो द्वाभ्यां॑ प॒र एक॑या॒ गा गुहा॒ तिष्ठं॑ती॒रनृ॑तस्य॒ सेतौ॑ ।
बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒च्छन्नुदु॒स्रा आक॒र्वि हि ति॒स्र आवः॑ ॥
अवो द्वाभ्याम् पर एकया गा गुहा तिष्ठन्तीर् अनृतस्य सेतौ |
बृहस्पतिस् तमसि ज्योतिर् इच्छन्न् उद् उस्रा आकर् वि हि तिस्र आवः ||
avó dvā́bhyām pará ékayā gā́ gúhā tíṣṭhantīránṛtasya sétau ǀ
bṛ́haspátistámasi jyótiricchánnúdusrā́ ā́karví hí tisrá ā́vaḥ ǁ
avo dvābhyām para ekayā gā guhā tiṣṭhantīr anṛtasya setau |
bṛhaspatis tamasi jyotir icchann ud usrā ākar vi hi tisra āvaḥ ||
Padapāṭha
अ॒वः । द्वाभ्या॑म् । प॒रः । एक॑या । गाः । गुहा॑ । तिष्ठ॑न्तीः । अनृ॑तस्य । सेतौ॑ ।
बृह॒स्पतिः॑ । तम॑सि । ज्योतिः॑ । इ॒च्छन् । उत् । उ॒स्राः । आ । अ॒कः॒ । वि । हि । ति॒स्रः । आव॒रित्यावः॑ ॥
अवः । द्वाभ्याम् । परः । एकया । गाः । गुहा । तिष्ठन्तीः । अनृतस्य । सेतौ ।
बृहस्पतिः । तमसि । ज्योतिः । इच्छन् । उत् । उस्राः । आ । अकः । वि । हि । तिस्रः । आवरित्यावः ॥
aváḥ ǀ dvā́bhyām ǀ paráḥ ǀ ékayā ǀ gā́ḥ ǀ gúhā ǀ tíṣṭhantīḥ ǀ ánṛtasya ǀ sétau ǀ
bṛ́haspátiḥ ǀ támasi ǀ jyótiḥ ǀ icchán ǀ út ǀ usrā́ḥ ǀ ā́ ǀ akaḥ ǀ ví ǀ hí ǀ tisráḥ ǀ ā́varítyāvaḥ ǁ
avaḥ ǀ dvābhyām ǀ paraḥ ǀ ekayā ǀ gāḥ ǀ guhā ǀ tiṣṭhantīḥ ǀ anṛtasya ǀ setau ǀ
bṛhaspatiḥ ǀ tamasi ǀ jyotiḥ ǀ icchan ǀ ut ǀ usrāḥ ǀ ā ǀ akaḥ ǀ vi ǀ hi ǀ tisraḥ ǀ āvarityāvaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.067.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.15.04
- Maṇḍala · Anuvāka · Ṛk
- 10.05.106
- Devatā देवता
- Bṛhaspati
- Ṛṣi ऋषि
- Ayāsya Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.