Ṛgveda · Maṇḍala 10 · Sūkta 67
Ṛk 10.67.3
Saṃhitā
हं॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्य॑न् ।
बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाँ अ॑गायत् ॥
हंसैर् इव सखिभिर् वावदद्भिर् अश्मन्मयानि नहना व्यस्यन् |
बृहस्पतिर् अभिकनिक्रदद् गा उत प्रास्तौद् उच् च विद्वां अगायत् ||
haṃsáiriva sákhibhirvā́vadadbhiraśmanmáyāni náhanā vyásyan ǀ
bṛ́haspátirabhikánikradadgā́ utá prā́staudúcca vidvā́m̐ agāyat ǁ
haṃsair iva sakhibhir vāvadadbhir aśmanmayāni nahanā vyasyan |
bṛhaspatir abhikanikradad gā uta prāstaud uc ca vidvāṃ agāyat ||
Padapāṭha
हं॒सैःऽइ॑व । सखि॑ऽभिः । वाव॑दत्ऽभिः । अ॒श्म॒न्ऽमया॑नि । नह॑ना । वि॒ऽअस्य॑न् ।
बृह॒स्पतिः॑ । अ॒भि॒ऽकनि॑क्रदत् । गाः । उ॒त । प्र । अ॒स्तौ॒त् । उत् । च॒ । वि॒द्वान् । अ॒गा॒य॒त् ॥
हंसैःऽइव । सखिऽभिः । वावदत्ऽभिः । अश्मन्ऽमयानि । नहना । विऽअस्यन् ।
बृहस्पतिः । अभिऽकनिक्रदत् । गाः । उत । प्र । अस्तौत् । उत् । च । विद्वान् । अगायत् ॥
haṃsáiḥ-iva ǀ sákhi-bhiḥ ǀ vā́vadat-bhiḥ ǀ aśman-máyāni ǀ náhanā ǀ vi-ásyan ǀ
bṛ́haspátiḥ ǀ abhi-kánikradat ǀ gā́ḥ ǀ utá ǀ prá ǀ astaut ǀ út ǀ ca ǀ vidvā́n ǀ agāyat ǁ
haṃsaiḥ-iva ǀ sakhi-bhiḥ ǀ vāvadat-bhiḥ ǀ aśman-mayāni ǀ nahanā ǀ vi-asyan ǀ
bṛhaspatiḥ ǀ abhi-kanikradat ǀ gāḥ ǀ uta ǀ pra ǀ astaut ǀ ut ǀ ca ǀ vidvān ǀ agāyat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.067.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.2.15.03
- Maṇḍala · Anuvāka · Ṛk
- 10.05.105
- Devatā देवता
- Bṛhaspati
- Ṛṣi ऋषि
- Ayāsya Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.