Ṛgveda · Maṇḍala 10 · Sūkta 66

Ṛk 10.66.15

Viśvedevās · Vasukarṇa Vāsukra

The whole sūkta Link

Saṃhitā

दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववंदे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः ।
ते नो॑ रासंतामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

देवान् वसिष्ठो अमृतान् ववन्दे ये विश्वा भुवनाभि प्रतस्थुः |
ते नो रासन्ताम् उरुगायम् अद्य यूयम् पात स्वस्तिभिः सदा नः ||

devā́nvásiṣṭho amṛ́tānvavande yé víśvā bhúvanābhí pratasthúḥ ǀ
té no rāsantāmurugāyámadyá yūyám pāta svastíbhiḥ sádā naḥ ǁ

devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ |
te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ ||

Padapāṭha

दे॒वान् । वसि॑ष्ठः । अ॒मृता॑न् । व॒व॒न्दे॒ । ये । विश्वा॑ । भुव॑ना । अ॒भि । प्र॒ऽत॒स्थुः ।
ते । नः॒ । रा॒स॒न्ता॒म् । उ॒रु॒ऽगा॒यम् । अ॒द्य । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

देवान् । वसिष्ठः । अमृतान् । ववन्दे । ये । विश्वा । भुवना । अभि । प्रऽतस्थुः ।
ते । नः । रासन्ताम् । उरुऽगायम् । अद्य । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

devā́n ǀ vásiṣṭhaḥ ǀ amṛ́tān ǀ vavande ǀ yé ǀ víśvā ǀ bhúvanā ǀ abhí ǀ pra-tasthúḥ ǀ
té ǀ naḥ ǀ rāsantām ǀ uru-gāyám ǀ adyá ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

devān ǀ vasiṣṭhaḥ ǀ amṛtān ǀ vavande ǀ ye ǀ viśvā ǀ bhuvanā ǀ abhi ǀ pra-tasthuḥ ǀ
te ǀ naḥ ǀ rāsantām ǀ uru-gāyam ǀ adya ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.066.15
Aṣṭaka · Adhyāya · Varga · Ṛk
8.2.14.05
Maṇḍala · Anuvāka · Ṛk
10.05.102
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Vasukarṇa Vāsukra
Chandas छन्दस्
Jagatī, Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.66.15

Interpretations

Sāyaṇa

वसिष्ठो वसिष्ठकुलजोऽयमृषिरमृतन्मरणरहितान्देवान्ववन्दे। एवमस्तावीत्। ये देवा विश्वा विश्वानि भुवनानि लोकानभि प्रतस्थुः स्वतेजसाभिभवन्ति। अभितः प्रतिष्ठन्तीति वा। प्रपूर्वात्तिष्ठतेर्लिटि रूपम्। समासस्वरः। ते देवा अद्यास्मिन्दिने नोऽस्मभ्यमुरुगायं प्रभूतयशस्कमन्नं रासन्तां। प्रयच्छन्तु। हे देवाः यूयम् स्वस्तिभि कल्याणीभिरूतिभिर्नोऽस्मान्सदा सर्वदा पात। रक्षत॥१५॥